Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1745

1875 Mantra
Devata- अश्विनौ Rishi- अवस्युरात्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
आ꣢ नो꣣ र꣡त्ना꣢नि꣣ बि꣡भ्र꣢ता꣣व꣡श्वि꣢ना꣣ ग꣡च्छ꣢तं यु꣣व꣢म् । रु꣢द्रा꣣ हि꣡र꣢ण्यवर्तनी जुषा꣣णा꣡ वा꣢जिनीवसू꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥१७४५॥

आ꣢ । नः꣣ । र꣡त्ना꣢꣯नि । बि꣡भ्र꣢꣯तौ । अ꣡श्वि꣢꣯ना । ग꣡च्छ꣢꣯तम् । यु꣣व꣢म् । रु꣡द्रा꣢꣯ । हि꣡र꣢꣯ण्यवर्तनी । हि꣡र꣢꣯ण्य । व꣣र्तनीइ꣡ति꣢ । जु꣣षाणा꣢ । वा꣣जिनीवसू । वाजिनी । वसूइ꣡ति꣢ । माध्वी꣢꣯इ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥१७४५॥

Mantra without Swara
आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् । रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतꣳ हवम् ॥

आ । नः । रत्नानि । बिभ्रतौ । अश्विना । गच्छतम् । युवम् । रुद्रा । हिरण्यवर्तनी । हिरण्य । वर्तनीइति । जुषाणा । वाजिनीवसू । वाजिनी । वसूइति । माध्वीइति । मम । श्रुतम् । हवम् ॥१७४५॥

Samveda - Mantra Number : 1745
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अश्विना) अश्विनौ योगाध्यापकयोगप्रशिक्षकौ ! (रत्नानि) रमणीयानि योगसिद्ध्यैश्वर्याणि (बिभ्रतौ) धारयन्तौ (युवम्) युवाम् (नः) योगजिज्ञासूनस्मान् (आगच्छतम्) आयातम्। हे (रुद्रा), रुद्रौ, रुदं रोदकं योगविघ्नादिकं द्रावयतो यौ तौ, (हिरण्यवर्तनी) तेजस्विमार्गावलम्बिनौ, (जुषाणा) जुषाणौ प्रीतिं कुर्वन्तौ, (वाजिनीवसू) वाजिनी बलवती योगाभ्यासक्रिया एव वसु धनं ययोस्तौ, (माध्वी) मधुमयप्राणविद्याविदौ योगाध्यापकप्रशिक्षकौ ! युवाम् (मम) योगजिज्ञासोः (हवम्) आह्वानम् (श्रुतम्) शृणुतम् ॥३॥२
Essence
तावेव योगाध्यापकयोगप्रशिक्षकौ योगविद्याप्रदाने सफलौ जायेते यौ स्वयं योगसिद्धिसम्पन्नौ योगविद्याधुरंधरौ भवतः ॥३॥ अस्मिन् खण्डे जगदीश्वरस्य जगन्मातुर्योगाभ्यासस्य च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति।
Subject
अत पुनस्तमेव विषयमाह।