Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1744

1875 Mantra
Devata- अश्विनौ Rishi- अवस्युरात्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ꣣त्या꣡या꣢तमश्विना ति꣣रो꣡ विश्वा꣢꣯ अ꣣ह꣡ꣳ सना꣢꣯ । द꣢स्रा꣣ हि꣡र꣢ण्यवर्तनी꣣ सु꣡षु꣢म्णा꣣ सि꣡न्धु꣢वाहसा꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥१७४४॥

अ꣣त्या꣡या꣢तम् । अ꣣ति । आ꣡या꣢꣯तम् । अ꣣श्विना । तिरः꣢ । वि꣡श्वाः꣢꣯ । अ꣣ह꣢म् । स꣡ना꣢꣯ । द꣡स्रा꣢꣯ । हि꣡र꣢꣯ण्यवर्तनी । हि꣡र꣢꣯ण्य । व꣣र्तनीइ꣡ति꣢ । सु꣡षु꣢꣯म्णा । सु । सु꣣म्ना । सि꣡न्धु꣢꣯वाहसा । सि꣡न्धु꣢꣯ । वा꣣हसा । मा꣢ध्वी꣢꣯इ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥१७४४॥

Mantra without Swara
अत्यायातमश्विना तिरो विश्वा अहꣳ सना । दस्रा हिरण्यवर्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतꣳ हवम् ॥

अत्यायातम् । अति । आयातम् । अश्विना । तिरः । विश्वाः । अहम् । सना । दस्रा । हिरण्यवर्तनी । हिरण्य । वर्तनीइति । सुषुम्णा । सु । सुम्ना । सिन्धुवाहसा । सिन्धु । वाहसा । माध्वीइति । मम । श्रुतम् । हवम् ॥१७४४॥

Samveda - Mantra Number : 1744
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अश्विना) योगाध्यापकयोगक्रियाप्रशिक्षकौ ! (अत्यायातम्) इतराणि कार्याण्यतिक्रम्य अस्मान् योगं शिक्षयितुम् आगच्छतम्। अहमपि योगं शिक्षितुम् (सना) सदा (विश्वाः) सर्वाः बाधाः (तिरः) तिरस्करोमि। हे (दस्रा) योगविघ्नानाम् उपक्षेतारौ, (हिरण्यवर्तनी) योगविद्याप्रशिक्षणे प्रशस्तमार्गावलम्बिनौ, (सुषुम्णा) सुसुम्नौ, शोभनं सुम्नं सुखं याभ्यां तौ सुप्रशस्तानन्ददातारौ, (सिन्धुवाहसा) ज्ञाननदीनां वाहकौ, (माध्वी) प्राणानां मधुविद्याविदौ योगाध्यापकयोगप्रशिक्षकौ ! युवाम् (मम) योगजिज्ञासोः (हवम्) आह्वानम् (श्रुतम्) शृणुतम्। [अत्र ‘दस्रा’, ‘सुषुम्णा’, ‘माध्वी’ इति सम्बोधनान्तेषु पदेषु पादादित्वात् षाष्ठेनाद्युदात्तत्वम्। ततः परं ‘हिरण्यवर्तनी’, ‘सिन्धुवाहसा’ इत्यत्रापि ‘आमन्त्रितं पूर्वमविद्यमानवत्’ अ० ८।१।७२ इति पूर्वामन्त्रितस्याविद्यमानत्वात् पादादित्वे सति षाष्ठेनाद्युदात्तत्वममेव, न त्वाष्टमिकेन निघात इति ज्ञेयम्] ॥२॥२
Essence
तावेव योगाध्यापकयोगप्रशिक्षकौ प्रशस्तौ मन्येते यौ योगमार्गे समागतान् व्याधिस्त्यानसंशयालस्यादीन् विघ्नान् सरलेन विधिना दूरीकर्तुं शिक्षयतोऽपि च मधुविद्याख्यायाः प्राणविद्यायाः प्रदानेऽष्टाङ्गयोगप्रशिक्षणे च निपुणौ भवतः ॥२॥
Subject
अथ पुनरपि योगाभ्यासविषयमाह।