Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1743

1875 Mantra
Devata- अश्विनौ Rishi- अवस्युरात्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
प्र꣡ति꣢ प्रि꣣य꣡त꣢म꣣ꣳ र꣢थं꣣ वृ꣡ष꣢णं वसु꣣वा꣡ह꣢नम् । स्तो꣣ता꣡ वा꣢मश्विना꣣वृ꣢षि꣣ स्तो꣡मे꣢भिर्भूषति꣣ प्र꣢ति꣣ मा꣢ध्वी꣣ म꣡म꣢ श्रुत꣣ꣳ ह꣡व꣢म् ॥१७४३॥

प्र꣡ति꣢꣯ । प्रि꣣य꣡त꣢मम् । र꣡थ꣢꣯म् । वृ꣡ष꣢꣯णम् । व꣣सुवा꣡ह꣢नम् । व꣣सु । वा꣡ह꣢꣯नम् । स्तो꣣ता꣢ । वा꣣म् । अश्विनौ । ऋ꣡षिः꣢꣯ । स्तो꣡मे꣢꣯भिः । भू꣣षति । प्र꣡ति꣢꣯ । मा꣢꣯ध्वीइ꣡ति꣢ । म꣡म꣢꣯ । श्रु꣣तम् । ह꣡व꣢꣯म् ॥१७४३॥

Mantra without Swara
प्रति प्रियतमꣳ रथं वृषणं वसुवाहनम् । स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतꣳ हवम् ॥

प्रति । प्रियतमम् । रथम् । वृषणम् । वसुवाहनम् । वसु । वाहनम् । स्तोता । वाम् । अश्विनौ । ऋषिः । स्तोमेभिः । भूषति । प्रति । माध्वीइति । मम । श्रुतम् । हवम् ॥१७४३॥

Samveda - Mantra Number : 1743
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अश्विनौ) योगशास्त्राध्यापकयोगक्रियाप्रशिक्षकौ ! (प्रियतमम्) अतिशयेन प्रियम्, (वृषणम्) बलवन्तम्, (वसुवाहनम्) वसुभिः निवासकैः मनःप्राणेन्द्रियादिभिः उह्यते इति वसुवाहनः तम् (रथम्) आत्माधिष्ठितं देहरथम् (प्रति) उद्दिश्य शिष्येषु अध्यात्मशारीरयोगप्रशिक्षणायेत्यर्थः (स्तोता) युष्मत्प्रशंसकः (ऋषिः) तत्त्वद्रष्टा आचार्यः (स्तोमेभिः) प्रशंसावचनैः (वाम्) युवाम् (प्रतिभूषति) अलङ्करोति, युवां प्रशंसतीत्यर्थः। हे (माध्वी) प्राणानां मधुविद्याविदौ ! युवाम् (मम) योगप्रशिक्षणार्थिनः (हवम्) आह्वानम् (श्रुतम्) शृणुतम् ॥१॥२
Essence
ये योगप्रशिक्षणं प्राप्तुमिच्छेयुस्ते योगकलाकुशलौ प्राणविद्याविदौ योगाध्यापक-योगक्रियाप्रशिक्षकौ प्राप्याष्टाङ्गयोगविधिना योगमभ्यस्य सकलदुःखमोक्षमधिगच्छेयुः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४१८ क्रमाङ्केऽध्यात्मविषये शिल्पविषये च व्याख्याता। अत्र योगाभ्यासविषय उच्यते।