Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1741

1875 Mantra
Devata- उषाः Rishi- सत्यश्रवा आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
या꣡ सु꣢नी꣣थे꣡ शौ꣢चद्र꣣थे꣡ व्यौच्छो꣢꣯ दुहितर्दिवः । सा꣡ व्यु꣢च्छ꣣ स꣡ही꣢यसि स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥१७४१॥

या꣢ । सु꣣नीथे꣢ । सु꣣ । नीथे꣢ । शौ꣣चद्रथे꣢ । शौ꣣चत् । रथे꣢ । व्यौ꣡च्छः꣢꣯ । वि꣣ । औ꣡च्छः꣢꣯ । दु꣣हितः । दिवः । सा꣢ । वि । उच्छ । स꣡ही꣢꣯यसि । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सू꣣नृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥१७४१॥

Mantra without Swara
या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः । सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

या । सुनीथे । सु । नीथे । शौचद्रथे । शौचत् । रथे । व्यौच्छः । वि । औच्छः । दुहितः । दिवः । सा । वि । उच्छ । सहीयसि । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते ॥१७४१॥

Samveda - Mantra Number : 1741
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुजाते) सुप्रसिद्धे (अश्वसूनृते) अश्वा व्याप्ता सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (दिवः दुहितः) दिव्यप्रकाशदोग्ध्रि उषः जगन्मातः ! (या) प्रसिद्धा, त्वम् (शौचद्रथे) शुचत् पवित्रो रथः आत्मरूपो रथो यस्य स शुचद्रथः, अतिशयेन शुचद्रथः शौचद्रथः तस्मिन्। [छन्दसि अपत्यप्रत्यया अतिशयार्थेऽपि भवन्ति।] (सुनीथे) सुनेतरि मनुष्ये (व्यौच्छः) प्रकाशं करोषि, सा तादृशी त्वम् (सहीयसि) अतिसयेन सोढृ सहीयः तस्मिन् (सत्यश्रवसि) सत्ययशसि (वाय्ये) वातुं योग्ये तन्तुवत् सन्ताननीये मम जीवनेऽपि (व्युच्छ) विवेकख्यातेः प्रकाशं कुरु ॥२॥२
Essence
ये पवित्राचरणा नेतारो जना भवन्ति तेषु पवित्रतां नेतृत्वबलं च जगन्मातैव निदधाति, तथैव सोऽस्माकमपि जीवनं पवित्रं विधाय विवेकख्यातिप्रकाशं जनयित्वाऽस्मान्निःश्रेयसाधिकारिणः करोतु ॥२॥
Subject
अथ पुनरपि जगन्मातरं प्रार्थयते।