Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1740

1875 Mantra
Devata- उषाः Rishi- सत्यश्रवा आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
म꣣हे꣡ नो꣢ अ꣣द्य꣡ बो꣢ध꣣यो꣡षो꣢ रा꣣ये꣢ दि꣣वि꣡त्म꣢ती । य꣡था꣢ चिन्नो꣣ अ꣡बो꣢धयः स꣣त्य꣡श्र꣢वसि वा꣣य्ये꣡ सुजा꣢꣯ते꣣ अ꣡श्व꣢सूनृते ॥१७४०॥

म꣡हे꣢ । नः꣣ । अद्य꣢ । अ꣣ । द्य꣢ । बो꣣धय । उ꣡षः꣢꣯ । रा꣣ये꣢ । दि꣣वि꣡त्म꣢ती । य꣡था꣢꣯ । चि꣣त् । नः । अ꣡बो꣢धयः । स꣣त्य꣡श्र꣢वसि । स꣣त्य꣢ । श्र꣣वसि । वाय्ये꣢ । सु꣡जा꣢꣯ते । सु । जा꣣ते । अ꣡श्व꣢꣯सूनृते । अ꣡श्व꣢꣯ । सू꣣नृते ॥१७४०॥

Mantra without Swara
महे नो अद्य बोधयोषो राये दिवित्मती । यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥

महे । नः । अद्य । अ । द्य । बोधय । उषः । राये । दिवित्मती । यथा । चित् । नः । अबोधयः । सत्यश्रवसि । सत्य । श्रवसि । वाय्ये । सुजाते । सु । जाते । अश्वसूनृते । अश्व । सूनृते ॥१७४०॥

Samveda - Mantra Number : 1740
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सुजाते) सुप्रसिद्धे (अश्वसूनृते) अश्वा व्याप्ता सूनृता प्रियसत्यात्मिका वेदवाग् यस्याः तादृशि (उषः) उषर्वत् जागरयित्री जगन्मातः ! (दिवित्मती) दिव्यप्रकाशेन देदीप्यमाना त्वम् (नः) अस्मान् (महे राये) महतेऽभ्युदयनिःश्रेयसरूपाय ऐश्वर्याय (अद्य) अस्मिन् दिनेऽपि (बोधय) जागरूकान् कुरु, (यथा चित्) येन प्रकारेण, त्वम् (सत्यश्रवसि) सत्ययशसि (वाय्ये) वातुं योग्ये तन्तुवत् सन्ताननीयेऽस्माकं पूर्वजीवने। [वेञ् तन्तुसन्ताने, ण्यत्।] (नः) अस्मान् (अबोधयः) जागरूकान् कृतवती ॥१॥२
Essence
यथा प्राकृतिक्युषाः सर्वान् प्राणिनः काचिन्माता वा स्वसन्तानान् जागरयति सत्कर्मसु संलग्नांश्च करोति तथैव जगदीश्वरी जगन्माताऽबोधानस्मानाजन्मन आमरणं स्वकर्तव्याचरणाय दिवानिशं प्रबोधयेद् येन वयं कीर्तिमभ्युदयं निःश्रेयसं च लभेमहि ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४२१ क्रमाङ्केऽध्यात्मप्रभाविषये व्याख्याता। अत्र जगन्माता सम्बोध्यते।