Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1737

1875 Mantra
Devata- अग्निः Rishi- वसुश्रुत आत्रेयः Chhand- पङ्क्तिः Swara- पञ्चमः
Mantra with Swara
अ꣣ग्निं꣡ तं म꣢꣯न्ये꣣ यो꣢꣫ वसु꣣र꣢स्तं꣣ यं꣡ यन्ति꣢꣯ धे꣣न꣡वः꣢ । अ꣢स्त꣣म꣡र्व꣢न्त आ꣣श꣢꣫वोऽस्तं꣣ नि꣡त्या꣢सो वा꣣जि꣢न꣣ इ꣡ष꣢ꣳ स्तो꣣तृ꣢भ्य꣣ आ꣡ भ꣢र ॥१७३७॥

अ꣣ग्नि꣢म् । तम् । म꣣न्ये । यः꣢ । व꣡सुः꣢꣯ । अ꣡स्त꣢꣯म् । यम् । य꣡न्ति꣢꣯ । धे꣣न꣡वः꣢ । अ꣡स्त꣢꣯म् । अ꣡र्व꣢꣯न्तः । आ꣣श꣡वः꣢ । अ꣡स्त꣢꣯म् । नि꣡त्या꣢꣯सः । वा꣣जि꣡नः꣢ । इ꣡ष꣢꣯म् । स्तो꣣तृ꣡भ्यः꣢ । आ । भ꣣र ॥१७३७॥

Mantra without Swara
अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः । अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषꣳ स्तोतृभ्य आ भर ॥

अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः । अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृभ्यः । आ । भर ॥१७३७॥

Samveda - Mantra Number : 1737
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अहम् (अग्निम्) अग्निशब्दवाच्यं जगदीश्वरम् (तं मन्ये) तं जानामि (यः वसुः) यः धर्मात्मनां निवासको वर्तते। [वासयतीति वसुः। वस निवासे।] (अस्तम् यम्) शरणरूपं यम्। [अस्तमिति गृहनाम। निघं० ३।४।] (धेनवः) पयस्विन्यो गावः (यन्ति) मातृत्वप्राप्त्यर्थं गच्छन्ति, (अस्तम्) शरणरूपं यम् (आशवः) शीघ्रगामिनः (अर्वन्तः) अश्वाः (यन्ति) वेगप्राप्त्यर्थं गच्छन्ति, (अस्तम्) शरणरूपं यम् (नित्यासः) अनाद्यनन्ताः (वाजिनः) बलवन्तो जीवात्मानः (यन्ति) बलप्राप्त्यर्थं गच्छन्ति। हे अग्ने जगदीश्वर ! त्वम् (स्तोतृभ्यः) स्तावकेभ्यः, त्वद्गुणकर्मस्वभावकीर्तनपरेभ्यो जनेभ्यः (इषम्) अभीष्टम् अभ्युदयनिःश्रेयसरूपं फलम् (आ भर) आहर ॥१॥२
Essence
सर्वेऽपि स्वस्वशक्तिप्राप्त्यर्थं यमुपगच्छन्ति स परमेश्वर एव मुख्यतोऽग्निशब्दवाच्योऽस्ति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ४२५ क्रमाङ्के व्याख्यातपूर्वा। अत्राग्निनाम्ना जगदीश्वरस्य परिचयः प्रस्तूयते।