Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1735

1875 Mantra
Devata- अश्विनौ Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
ए꣢꣫ह दे꣣वा꣡ म꣢यो꣣भु꣡वा꣢ द꣣स्रा꣡ हिर꣢꣯ण्यवर्त्तनी । उ꣣षर्बु꣡धो꣢ वहन्तु꣣ सो꣡म꣢पीतये ॥१७३५॥

आ꣢ । इ꣣ह꣢ । दे꣣वा꣢ । म꣣योभुवा । मयः । भु꣡वा꣢꣯ । द꣣स्रा꣢ । हि꣡र꣢꣯ण्यवर्त्तनी । हि꣡र꣢꣯ण्य । व꣣र्त्तनीइ꣡ति꣢ । उ꣣षर्बु꣡धः꣢ । उ꣣षः । बु꣡धः꣢꣯ । व꣣हन्तु । सो꣡म꣢꣯पीतये । सो꣡म꣢꣯ । पी꣣तये ॥१७३५॥

Mantra without Swara
एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी । उषर्बुधो वहन्तु सोमपीतये ॥

आ । इह । देवा । मयोभुवा । मयः । भुवा । दस्रा । हिरण्यवर्त्तनी । हिरण्य । वर्त्तनीइति । उषर्बुधः । उषः । बुधः । वहन्तु । सोमपीतये । सोम । पीतये ॥१७३५॥

Samveda - Mantra Number : 1735
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(उषर्बुधः) ये उषसि बुध्यन्ते बोधं प्राप्नुवन्ति ते जनाः (सोमपीतये) सोमस्य सुखस्वास्थ्यदीर्घायुष्यशान्त्यादेः पीतिः रक्षणं तस्मै (इह) देहे (देवा) देवौ, गमनागमनकारिणौ, (मयोभुवा) सुखस्य भावयितारौ, (दस्रा) दोषाणामुपक्षेतारौ, (हिरण्यवर्तनी) हिरण्यं शारीरं मानसं च तेजो वर्तयन्तौ अश्विनौ प्राणापानौ (आ वहन्तु) आनयन्तु, प्राणायामं साध्नुवन्त्विति भावः ॥२॥
Essence
योगाङ्गेन प्राणायामेन सर्वान् शारीरान् मानसांश्च दोषान् दग्ध्वा योगसिद्धिं प्राप्य जनैरभ्युदयनिःश्रेयसे साधनीये ॥२॥
Subject
अथ प्राणायामविषय उच्यते।