Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1734

1875 Mantra
Devata- अश्विनौ Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
अ꣡श्वि꣢ना व꣣र्ति꣢र꣣स्म꣡दा गोम꣢꣯द्दस्रा꣣ हि꣡र꣢ण्यवत् । अ꣣र्वा꣢꣫ग्रथ꣣ꣳ स꣡म꣢नसा꣣ नि꣡ य꣢च्छतम् ॥१७३४॥

अ꣡श्वि꣢꣯ना । व꣣र्तिः꣢ । अ꣣स्म꣢त् । आ । गो꣡म꣢꣯त् । द꣣स्रा । हि꣡र꣢꣯ण्यवत् । अ꣣र्वा꣢क् । र꣡थ꣢꣯म् । स꣡म꣢꣯नसा । स । म꣣नसा । नि꣢ । य꣣च्छतम् ॥१७३४॥

Mantra without Swara
अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथꣳ समनसा नि यच्छतम् ॥

अश्विना । वर्तिः । अस्मत् । आ । गोमत् । दस्रा । हिरण्यवत् । अर्वाक् । रथम् । समनसा । स । मनसा । नि । यच्छतम् ॥१७३४॥

Samveda - Mantra Number : 1734
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (दस्रा) दस्रौ दोषाणामुपक्षेतारौ (अश्विना) शरीरव्याप्तौ प्राणापानौ ! (अस्मत्) अस्माकम्। [अत्र ‘सुपां सुलुक्’ अ० ७।१।३९ इति षष्ठ्या लुक्।] (वर्तिः१) गृहम् (आ) समन्तात् (गोमत्) गोभिर्युक्तम्, (हिरण्यवत्) सुवर्णादिभिर्धनैश्च युक्तं भवेदिति हेतोः, युवाम् (समनसा) समनसौ मनसा संयुक्तौ भूत्वा (रथम्) अस्माकं देहरूपं शकटम् (अर्वाग्) अनुकूलं यथा स्यात्तथा (नि यच्छतम्) नियन्त्रितं कुरुतम् ॥१॥
Essence
देहे स्वस्थे सत्येव पुरुषार्थं कृत्वा गोहिरण्यादीनि धनानि प्राप्तुं शक्यन्ते, स्वास्थ्यप्राप्तेश्च प्राणायामो मुख्यं साधनम् ॥१॥
Subject
तत्रादौ प्राणापानविषयमाह।