Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1733

1875 Mantra
Devata- उषाः Rishi- गोतमो राहूगणः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
यु꣣ङ्क्ष्वा꣡ हि वा꣢꣯जिनीव꣣त्य꣡श्वा꣢ꣳ अ꣣द्या꣢रु꣣णा꣡ꣳ उ꣢षः । अ꣡था꣢ नो꣣ वि꣢श्वा꣣ सौ꣡भ꣢गा꣣न्या꣡ व꣢ह ॥१७३३॥

युङ्क्ष्व । हि । वा꣣जिनीवति । अ꣡श्वा꣢꣯न् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । अ꣣रुणा꣢न् । उ꣣षः । अ꣡थ꣢꣯ । नः꣣ । वि꣡श्वा꣢꣯ । सौ꣡भ꣢꣯गानि । सौ । भ꣣गानि । आ꣢ । व꣣ह ॥१७३३॥

Mantra without Swara
युङ्क्ष्वा हि वाजिनीवत्यश्वाꣳ अद्यारुणाꣳ उषः । अथा नो विश्वा सौभगान्या वह ॥

युङ्क्ष्व । हि । वाजिनीवति । अश्वान् । अद्य । अ । द्य । अरुणान् । उषः । अथ । नः । विश्वा । सौभगानि । सौ । भगानि । आ । वह ॥१७३३॥

Samveda - Mantra Number : 1733
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वाजिनीवति२) हे प्रशस्तक्रियामयि (उषः) उषर्वत् तेजोमयि जगन्मातः ! त्वम् (अद्य) अस्मिन् दिने (अरुणान्) तेजोमयान् (अश्वान्) इन्द्रियरूपान् (युङ्क्ष्व हि) ज्ञाने क्रियायां च योजय खलु। (अथ) ततश्च (नः) अस्मभ्यम् (विश्वा) सर्वाणि (सौभगानि) सौभाग्यानि (आवह) प्रापय ॥३॥३
Essence
सैव माता श्रेष्ठा मन्यते या सन्तानं ज्ञाने कर्मणि च प्रेरयेत्, यतस्तत एव सौभाग्यवृद्धिर्जायते ॥३॥
Subject
अथ पुनरपि जगदीश्वरीं मातरं प्रार्थयते।