Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1730

1875 Mantra
Devata- अश्विनौ Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
व꣣च्य꣡न्ते꣢ वां ककु꣣हा꣡सो꣢ जू꣣र्णा꣢या꣣म꣡धि꣢ वि꣣ष्ट꣡पि꣢ । य꣢द्वा꣣ꣳ र꣢थो꣣ वि꣢भि꣣ष्प꣡ता꣢त् ॥१७३०॥

व꣣च्य꣡न्ते꣢ । वा꣣म् । ककुहा꣡सः꣢ । जू꣣र्णा꣡या꣢म् । अ꣡धि꣢꣯ । वि꣣ष्ट꣡पि꣢ । यत् । वा꣣म् । र꣡थः꣢꣯ । वि꣡भिः꣢꣯ । प꣡ता꣢꣯त् ॥१७३०॥

Mantra without Swara
वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि । यद्वाꣳ रथो विभिष्पतात् ॥

वच्यन्ते । वाम् । ककुहासः । जूर्णायाम् । अधि । विष्टपि । यत् । वाम् । रथः । विभिः । पतात् ॥१७३०॥

Samveda - Mantra Number : 1730
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे अश्विनौ मनआत्मानौ ! (वाम्) युवयोः (ककुहासः) महान्तः स्तोमाः (वच्यन्ते) उच्यन्ते, (यत्) यतः (जूर्णायाम्) जीर्णायाम्, वृद्धायाम् (विष्टपि अधि) अवस्थायामपि (विभिः) इन्द्रियरूपैः अश्वैः (वाम्) युवयोः (रथः) देहरथः (पतात्) गच्छति। [ककुहासः, ककुह इति महन्नामसु पठितम्। निघं० ३।३। वच्यन्ते, सम्प्रसारणाच्च अ० ६।१।१०८ इत्यत्र ‘वा छन्दसि’ अ० ६।१।१०६ इत्यनुवृत्तेः पूर्वरूपाभावाद् यणादेशः। विष्टप् इति निरुक्ते (२।१४) द्युलोकवाचकोऽपि सन् अत्र आयुरवस्थाविशेषवाचको बोध्यः। विभिः वयन्ति गच्छन्तीति वयः अश्वाः, वी गत्यादिषु। पतात्, पत्लृ धातोर्लेटि रूपम्] ॥३॥२
Essence
वृद्धावस्थायामपि यच्छरीरं सम्यक् कार्यं करोति स सर्वोऽपि प्राणापानसहचरितयोर्मनआत्मनोरेव प्रतापः ॥३॥
Subject
अथ मनआत्मनोर्महत्त्वमुच्यते।