Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 173

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
भ꣣द्रं꣡भ꣢द्रं न꣣ आ꣢ भ꣣रे꣢ष꣣मू꣡र्ज꣢ꣳ शतक्रतो । य꣡दि꣢न्द्र मृ꣣ड꣡या꣢सि नः ॥१७३॥

भ꣣द्र꣡म्भ꣢द्रं । भ꣣द्रम् । भ꣣द्रम् । नः । आ꣢ । भ꣣र । इ꣡ष꣢꣯म् । ऊ꣡र्ज꣢꣯म् । श꣣तक्रतो । शत । क्रतो । य꣢त् । इ꣣न्द्र । मृड꣡या꣢सि । नः꣣ ॥१७३॥

Mantra without Swara
भद्रंभद्रं न आ भरेषमूर्जꣳ शतक्रतो । यदिन्द्र मृडयासि नः ॥

भद्रम्भद्रं । भद्रम् । भद्रम् । नः । आ । भर । इषम् । ऊर्जम् । शतक्रतो । शत । क्रतो । यत् । इन्द्र । मृडयासि । नः ॥१७३॥

Samveda - Mantra Number : 173
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (शतक्रतो) असंख्यशुभकर्मणां कर्तः प्रभो ! त्वम् (भद्रंभद्रम्२) अतिशयेन कल्याणकरम् (इषम्३) अन्नधनविज्ञानादिकम्। इषम् इति अन्ननाम। निघं० २।७। इषु इच्छायाम्, इषु गतौ धातोः क्विप्। (ऊर्जम्) बलं, प्राणशक्तिम्, रसं च। ऊर्ज बलप्राणनयोः। ऊर्ग् रसः। श० १।५।४।२। (नः) अस्मभ्यम् (आ भर) आहर। अत्र हृग्रहोर्भश्छन्दसि इति वार्तिकेन हस्य भत्वम्। (यत्) यस्मात्, हे (इन्द्र) दयानिधे परमात्मन् ! त्वम् (नः) अस्मान् (मृडयासि) सुखयसि। मृड सुखने तुदादौ पठितो वेदे चुरादिरपि प्रयुज्यते। लडर्थे लेटि आडागमः। मृडयतिरुपदयाकर्मा पूजाकर्मा वा इति निरुक्तम् १०।१५ ॥९॥
Essence
मनुष्यैर्भद्रं भद्रमेव धनादिकमुपार्ज्य सततं स्वेषां परेषां चोन्नतिर्विधेया ॥९॥
Subject
अथेन्द्रो भद्रं प्रार्थ्यते।
Footnote
१. ऋ० ८।९३।२८, ऋषिः सुकक्षः। २. भद्रंभद्रम् अतिशयेन शोभनमित्यर्थः—इति वि०। भद्रंभद्रं सर्वं कल्याणं नः अस्मभ्यम् आभर इषं पुष्टिं ऊर्जं रसं च आभर—इति भ०। ३. (इषम्) अन्नं विज्ञानं वा इति ऋ० ७।४८।४ भाष्ये, विज्ञानं धनं वा इति च ऋ० ७।८।७ भाष्ये—द०।