Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1728

1875 Mantra
Devata- अश्विनौ Rishi- प्रस्कण्वः काण्वः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ए꣣षो꣢ उ꣣षा꣡ अपू꣢꣯र्व्या꣣꣬ व्यु꣢꣯च्छति प्रि꣣या꣢ दि꣣वः꣢ । स्तु꣣षे꣡ वा꣢मश्विना बृ꣣ह꣢त् ॥१७२८॥

ए꣣षा꣢ । उ꣣ । उषाः꣢ । अ꣡पू꣢꣯र्व्या । अ । पू꣣र्व्या । वि꣢ । उ꣣च्छति । प्रिया꣢ । दि꣣वः꣢ । स्तु꣣षे꣢ । वा꣣म् । अश्विना । बृह꣢त् ॥१७२८॥

Mantra without Swara
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः । स्तुषे वामश्विना बृहत् ॥

एषा । उ । उषाः । अपूर्व्या । अ । पूर्व्या । वि । उच्छति । प्रिया । दिवः । स्तुषे । वाम् । अश्विना । बृहत् ॥१७२८॥

Samveda - Mantra Number : 1728
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(एषा उ) इयं खलु (अपूर्व्या) अनुपमा, (प्रिया) प्रीतिकरी (उषाः) प्रकाशमयी ऋतम्भरा प्रज्ञा (दिवः) द्योतमानात् आत्मलोकात् (व्युच्छति) प्रकटीभवति। हे (अश्विनौ) तया ऋतम्भरया प्रज्ञया चमत्कृतौ मनआत्मानौ ! अहम् (वाम्) युवाम् (बृहत्) बहु (स्तुषे) स्तौमि ॥१॥२
Essence
यदा योगिनो मानसाकाशे ऋतम्भरा प्रज्ञारूपिणी दिव्योषा आविर्भवति तदा देहस्थान्यात्ममनोबुद्धिप्राणेन्द्रियादीनि सर्वाण्यपि दिव्येन ज्योतिषा प्रदीप्तानि जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १७८ क्रमाङ्के व्याख्यातपूर्वा। अत्र ऋतम्भरा प्रज्ञा वर्ण्यते।