Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1726

1875 Mantra
Devata- उषाः Rishi- वामदेवो गौतमः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡श्वे꣢व चि꣣त्रा꣡रु꣢षी मा꣣ता꣡ गवा꣢꣯मृ꣣ता꣡व꣢री । स꣡खा꣢ भूद꣣श्वि꣡नो꣢रु꣣षाः꣡ ॥१७२६॥

अ꣡श्वा꣢꣯ । इ꣣व । चित्रा꣢ । अ꣡रु꣢꣯षी । मा꣣ता꣢ । ग꣡वा꣢꣯म् । ऋ꣣ता꣡व꣢री । स꣡खा꣢꣯ । स । खा꣣ । भूत् । अश्वि꣡नोः꣢ । उ꣣षाः꣢ ॥१७२६॥

Mantra without Swara
अश्वेव चित्रारुषी माता गवामृतावरी । सखा भूदश्विनोरुषाः ॥

अश्वा । इव । चित्रा । अरुषी । माता । गवाम् । ऋतावरी । सखा । स । खा । भूत् । अश्विनोः । उषाः ॥१७२६॥

Samveda - Mantra Number : 1726
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—प्राकृतिक्या उषसः पक्षे। पश्यत, (अश्वा इव) अतरिक्षव्यापिनी विद्युदिव (चित्रा) चित्रवर्णा, (अरुषी) आरोचमाना। [अरुषीः आरोचनात्। निरु० १२।७।] (गवाम् माता) रश्मीनां जननी, (ऋतावरी) सत्यनियमवती। [अत्र छन्दसीवनिपौ वा०, अ० ५।२।१०९ इति वनिप्। ‘वनो र च’ अ० ४।१।७ इति स्त्रियां ङीष् नकारस्य रेफश्च। ‘अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति ऋतस्य दीर्घान्तादेशः।] (उषाः) प्रभातकान्तिः (अश्विनोः) द्यावापृथिव्योः (सखा) सखी, सहचारिणी (अभूत्) अजायत। [सखिशब्दस्य स्त्रियां सखी इति प्राप्ते, छन्दसि स्त्रियामपि ‘अनङ् सौ’ अ० ७।१।९३ इत्यनङि सखा इति रूपं भवति] ॥ द्वितीयः—दिव्याया उषसः पक्षे। (अश्वा इव) व्यापिनी विद्युदिव (चित्रा) अद्भुता, (अरुषी) अहिंसिका। [रोषति हिनस्तीति रुषी, न रुषी अरुषी। रुष हिंसार्थः, भ्वादिः।] (गवाम् माता) अध्यात्मकिरणानां जननी, (ऋतावरी) ऋतमयी (उषाः) ऋतम्भरा प्रज्ञा (अश्विनोः) आत्ममनसोः (सखा) सहचारिणी (अभूत्) अजायत ॥२॥२ अत्र श्लेष उपमा चालङ्कारः ॥२॥
Essence
यथा सत्यनियमेन प्रत्यहमुदीयमाना दीप्तिमती प्राकृतिक्युषा द्यावापृथिव्यौ व्याप्नोति तथैव योगमार्गे सत्यमयी ऋतम्भरा प्रज्ञा योगसाधकस्यात्ममनसी व्याप्नोति ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।