Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1724

1875 Mantra
Devata- इन्द्रः Rishi- गोतमो राहूगणः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
मा꣢ ते꣣ रा꣡धा꣢ꣳसि꣣ मा꣢ त꣢ ऊ꣣त꣡यो꣢ वसो꣣ऽस्मा꣡न्कदा꣢꣯ च꣣ना꣡ द꣢भन् । वि꣡श्वा꣢ च न उपमिमी꣣हि꣡ मा꣢नुष꣣ व꣡सू꣢नि चर्ष꣣णि꣢भ्य꣣ आ꣢ ॥१७२४॥

मा꣢ । ते꣣ । रा꣡धा꣢꣯ꣳसि । मा । ते꣣ । ऊत꣡यः꣢ । व꣣सो । अस्मा꣢न् । क꣡दा꣢꣯ । च꣢ । न꣢ । द꣣भन् । वि꣡श्वा꣢꣯ । च꣣ । नः । उपमिमीहि꣢ । उ꣣प । मिमीहि꣢ । मा꣣नुष । व꣡सू꣢꣯नि । च꣣र्षणि꣡भ्यः꣢ । आ ॥१७२४॥

Mantra without Swara
मा ते राधाꣳसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् । विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥

मा । ते । राधाꣳसि । मा । ते । ऊतयः । वसो । अस्मान् । कदा । च । न । दभन् । विश्वा । च । नः । उपमिमीहि । उप । मिमीहि । मानुष । वसूनि । चर्षणिभ्यः । आ ॥१७२४॥

Samveda - Mantra Number : 1724
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (वसो) वासयितः जगदीश्वर आचार्य वा ! (मा) नैव (ते) तव (राधांसि) अहिंसासत्यादीनि ऐश्वर्याणि, (मा) नापि च (ते) तव (ऊतयः) रक्षाः (अस्मान्) त्वदुपासकान् त्वच्छिष्यांश्च (कदा चन) कदापि (आदभन्) वञ्चितान् कुर्वन्तु। हे (मानुष) मनुर्भ्यः मनुष्येभ्यः हितप्रद ! (चर्षणिभ्यः नः) मानवेभ्यः अस्मभ्यम् त्वम् (विश्वा च वसूनि) विश्वानि च ऐश्वर्याणि धनधान्यविद्यादीर्घायुष्याभ्युदयनिःश्रेयसादीनि (आ उपमिमीहि) समन्ततः उपप्रापय। [आदभन्, आङ्पूर्वो दभु दम्भे, लेटि प्रथमबहुवचने रूपम्। मिमीहि, माङ् माने शब्दे च, जुहोत्यादिः] ॥२॥२
Essence
परमात्मानमाचार्यं च संसेव्य सर्वाणि दिव्यैश्वर्याणि सर्वा योगविभूतयः सकलानि रक्षणानि च जनैः प्राप्तव्यानि ॥३॥ अस्मिन् खण्डे जीवात्मनः परमात्मन उपासकानां गुरुशिष्ययोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनस्तानेव सम्बोध्येते।