Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1722

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
म꣡न्द꣢न्तु त्वा मघवन्नि꣣न्द्रे꣡न्द꣢वो राधो꣣दे꣡या꣢य सुन्व꣣ते꣢ । आ꣣मु꣢ष्या꣣ सो꣡म꣢मपिबश्च꣣मू꣢ सु꣣तं꣢꣫ ज्येष्ठं꣣ त꣡द्द꣢धिषे꣣ स꣡हः꣢ ॥१७२२॥

म꣡न्द꣢꣯न्तु । त्वा꣣ । मघवन् । इन्द्र । इ꣡न्द꣢꣯वः । रा꣣धोदे꣡या꣢य । रा꣣धः । दे꣡या꣢꣯य । सु꣣न्वते꣢ । आ꣣मु꣡ष्य꣢ । आ꣣ । मु꣡ष्य꣢꣯ । सो꣡म꣢꣯म् । अ꣡पिबः । चमू꣡इति꣢ । सु꣣त꣢म् । ज्ये꣡ष्ठ꣢꣯म् । तत् । द꣣धिषे । स꣡हः꣢꣯ ॥१७२२॥

Mantra without Swara
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते । आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥

मन्दन्तु । त्वा । मघवन् । इन्द्र । इन्दवः । राधोदेयाय । राधः । देयाय । सुन्वते । आमुष्य । आ । मुष्य । सोमम् । अपिबः । चमूइति । सुतम् । ज्येष्ठम् । तत् । दधिषे । सहः ॥१७२२॥

Samveda - Mantra Number : 1722
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (मघवन्) ऐश्वर्यशालिन् (इन्द्र) जगत्पते परमेश्वर ! (इन्दवः) भक्तिरसाः (सुन्वते) भक्ताय उपासकाय (राधोदेयाय) ऐश्वर्यप्रदानाय (त्वा) त्वाम् (मन्दन्तु) प्रसादयन्तु। त्वम् (चमू) चम्वोः आत्ममनसोः (सुतम्) अभिषुतम् (सोमम्) भक्तिरसम् (आमुष्य) औत्सुक्येन हृत्वा (अपिबः) पिबसि, (तत्) ततश्च विनिमयरूपेण (ज्येष्ठम्) प्रशस्यतमं वृद्धतमं वा (सहः) बलम्, (दधिषे) उपासके दधासि ॥२॥
Essence
भक्तिरसेन तृप्तः परमेश्वरो भक्ताय पुरुषार्थं दिव्यां शक्तिं च प्रयच्छति ॥२॥
Subject
अथ जगदीश्वरः सम्बोध्यते।