Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1721

1875 Mantra
Devata- इन्द्रः Rishi- देवातिथिः काण्वः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
य꣡था꣢ गौ꣣रो꣢ अ꣢पा꣣ कृ꣣तं꣢꣫ तृष्य꣣न्ने꣡त्यवेरि꣢꣯णम् । आ꣣पित्वे꣡ नः꣢ प्रपि꣣त्वे꣢꣫ तूय꣣मा꣡ ग꣢हि꣣ क꣡ण्वे꣢षु꣣ सु꣢꣫ सचा꣣ पि꣡ब꣢ ॥१७२१॥

य꣡था꣢꣯ । गौ꣣रः꣢ । अ꣣पा꣢ । कृ꣣त꣢म् । तृ꣡ष्य꣢꣯न् । ए꣡ति꣢꣯ । अ꣡व꣢꣯ । इ꣡रि꣢꣯णम् । आ꣣पित्वे꣢ । नः꣣ । प्रपित्वे꣢ । तू꣡य꣢꣯म् । आ । ग꣣हि । क꣡ष्वे꣢꣯षु । सु । स꣡चा꣢꣯ । पि꣡ब꣢꣯ ॥१७२१॥

Mantra without Swara
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्रपित्वे । तूयम् । आ । गहि । कष्वेषु । सु । सचा । पिब ॥१७२१॥

Samveda - Mantra Number : 1721
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यथा) येन प्रकारेण (तृष्यन्) पिपासितः सन् (गौरः) गौरमृगः (इरिणम्) मरुस्थलम् (अव) अवहाय (अपा कृतम्) जलेन पूर्णं सरोवरम् (एति) गच्छति, तथैव हे विद्यार्थिन् ! (नः) गुरूणाम् अस्माकम् (आपित्वे) सम्बन्धे (प्रपित्वे) प्राप्ते सति त्वम् अस्मत्सन्निधौ (तूयम्) शीघ्रम् (आ गहि) आगच्छ, किञ्च (कण्वेषु) मेधाविनाम् अस्माकं सान्निध्ये (सचा) अन्यैः सहाध्यायिभिः सह मिलित्वा (सु पिब) सम्यग् लौकिकविद्यारसम् अध्यात्मविद्यारसं च आस्वादय ॥१॥ अत्रोपमालङ्कारः ॥१॥
Essence
यथा पिपासार्तो मृगो जलविहीनं प्रदेशमपहाय जलप्रचुरं प्रदेशं गच्छति तथैव विद्यापिपासवो जना मूर्खसङ्गं विहाय विद्वत्सङ्गतिं कुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २५२ क्रमाङ्के परमात्माह्वानविषये व्याख्याता। अत्र विद्वांसो गुरुजनाः शिष्यजनमाहुः।