Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1720

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
ग꣣म्भीरा꣡ꣳ उ꣢द꣣धी꣡ꣳरि꣢व꣣ क्र꣡तुं꣢ पुष्यसि꣣ गा꣡ इ꣢व । प्र꣡ सु꣢गो꣣पा꣡ यव꣢꣯सं धे꣣न꣡वो꣢ यथा ह्र꣣दं꣢ कु꣣ल्या꣡ इ꣢वाशत ॥१७२०॥

ग꣣म्भीरा꣢न् । उ꣣दधी꣢न् । उ꣣द । धी꣢न् । इ꣣व । क्र꣡तु꣢꣯म् । पु꣣ष्यसि । गाः꣢ । इ꣣व । प्र꣢ । सु꣣गोपाः꣢ । सु꣣ । गोपाः꣢ । य꣡व꣢꣯सम् । धे꣣न꣡वः꣢ । य꣣था । ह्रद꣢म् । कु꣣ल्याः꣢ । इ꣣व । आशत ॥१७२०॥

Mantra without Swara
गम्भीराꣳ उदधीꣳरिव क्रतुं पुष्यसि गा इव । प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥

गम्भीरान् । उदधीन् । उद । धीन् । इव । क्रतुम् । पुष्यसि । गाः । इव । प्र । सुगोपाः । सु । गोपाः । यवसम् । धेनवः । यथा । ह्रदम् । कुल्याः । इव । आशत ॥१७२०॥

Samveda - Mantra Number : 1720
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! हे पावक जगदीश्वर ! (गम्भीरान्) अगाधान् (उदधीन् इव) समुद्रान् यथा त्वं पुष्यसि, (गाः इव) पृथिव्यादिलोकान् यथा त्वं पुष्यसि, तथैव (क्रतुम्) कर्मकर्तारं जीवात्मानम् (पुष्यसि) पुष्णासि। हे जीवात्मन् ! (यवसम्) घासम् (धेनवः यथा) गावः यथा, अपि च (ह्रदम्) सरोवरम् (कुल्याः इव) शुद्धजलस्य प्रणालिकाः यथा अश्नुवते, तथैव (सुगोपाः) सुरक्षकाः आनन्दरसाः त्वाम् (प्र आशत) प्रकर्षेण अश्नुवते ॥३॥२ अत्र चतस्रः उपमाः तेनोपमालङ्कारः ॥३॥
Essence
जगदीश्वरो यथा जलैरुदधीन् पयोभिधेनूर्विविधैरैश्वर्यैश्च पृथिव्यादिलोकान् परिपूरयति तथैव जीवात्मानं सद्गुणैः परिपूरयति। गावो यथा घासं लघुकुल्याश्च महाजलाशयं प्राप्नुवन्ति तथा जगदीश्वराद् ब्रह्मानन्दरसा जीवात्मानं प्राप्नुवन्ति ॥३॥
Subject
अथोपमामुखेन परमात्मनः कर्म जीवात्मन उपलब्धिं च वर्णयति।