Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1718

1875 Mantra
Devata- इन्द्रः Rishi- विश्वामित्रो गाथिनः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
आ꣢ म꣣न्द्रै꣡रि꣢न्द्र꣣ ह꣡रि꣢भिर्या꣣हि꣢ म꣣यू꣡र꣢रोमभिः । मा꣢ त्वा꣣ के꣢ चि꣣न्नि꣡ ये꣢मु꣣रि꣢꣫न्न पा꣣शि꣢꣫नोऽति꣣ ध꣡न्वे꣢व꣣ ता꣡ꣳ इ꣢हि ॥१७१८॥

आ꣢ । म꣣न्द्रैः꣢ । इ꣣न्द्र । ह꣡रि꣢꣯भिः । या꣣हि꣢ । म꣣यू꣡र꣢रोमभिः । म꣣यू꣡र꣢ । रो꣣मभिः । मा꣢ । त्वा꣣ । के꣢ । चि꣣त् । नि꣢ । ये꣣मुः । इ꣢त् । न । पा꣣शि꣡नः꣢ । अ꣡ति꣢꣯ । ध꣡न्व꣢꣯ । इ꣣व । ता꣢न् । इ꣣हि ॥१७१८॥

Mantra without Swara
आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव ताꣳ इहि ॥

आ । मन्द्रैः । इन्द्र । हरिभिः । याहि । मयूररोमभिः । मयूर । रोमभिः । मा । त्वा । के । चित् । नि । येमुः । इत् । न । पाशिनः । अति । धन्व । इव । तान् । इहि ॥१७१८॥

Samveda - Mantra Number : 1718
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्र) मदीय अन्तरात्मन् ! त्वम् (मन्द्रैः) तृप्तिप्रदैः (मयूररोमभिः) मयूरस्य बर्हिणः रोमाणीव रोमाणि विषयग्रहणसामर्थ्यानि येषां तैः। [रुङ् गतिरेषणयोः, भ्वादिः, ततो मनिन् प्रत्ययः। रवन्ते विषयान् प्रति गच्छन्तीति रोमाणि विषयग्रहणसामर्थ्यानि।] (हरिभिः) मनोबुद्धिज्ञानेन्द्रियकर्मेन्द्रियैः सह (आयाहि) ज्ञानक्षेत्रं कर्मक्षेत्रं च आगच्छ। आगन्तुमनसं (त्वा) त्वाम् (केचित्) केऽपि बाधकाः शत्रवो विघ्ना वा (मा नियेमुः) नैव उपरुन्धन्तु, (पाशिनः) पाशपाणयो व्याधादयः (इत् न) गन्तारं खगादिकं यथा नियच्छन्ति। त्वम् (धन्वा इव) धनुर्धर इव (तान्) बाधकान् (अति इहि) अतिक्रामस्व ॥१॥२ अत्रोपमालङ्कारः ॥१॥
Essence
मनुष्याणामिदं योग्यं यत्ते स्वान्तरात्मानमुद्बोध्य बाधकान् शत्रून् प्रत्यूहान् वा पराजित्य स्वोन्नतिं कुर्युः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २४६ क्रमाङ्के परमात्मनृपत्योराह्वानविषये व्याख्याता। अत्र जीवात्मा समुद्बोध्यते।