Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1716

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣡स्य꣢ व्र꣣ता꣢नि꣣ ना꣢꣫धृषे꣣ प꣡व꣢मानस्य दू꣣꣬ढ्या꣢꣯ । रु꣣ज꣡ यस्त्वा꣢꣯ पृत꣣न्य꣡ति꣢ ॥१७१६॥

अ꣡स्य꣢꣯ । व्र꣣ता꣡नि꣢ । न । आ꣣धृ꣡षे꣢ । आ꣣ । धृ꣡षे꣢꣯ । प꣡व꣢꣯मानस्य । दू꣣ढ्या꣢ । रु꣣ज꣢ । यः । त्वा꣣ । पृतन्य꣡ति꣢ ॥१७१६॥

Mantra without Swara
अस्य व्रतानि नाधृषे पवमानस्य दूढ्या । रुज यस्त्वा पृतन्यति ॥

अस्य । व्रतानि । न । आधृषे । आ । धृषे । पवमानस्य । दूढ्या । रुज । यः । त्वा । पृतन्यति ॥१७१६॥

Samveda - Mantra Number : 1716
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(अस्य) एतस्य (पवमानस्य) पुरुषार्थिनो जीवस्य। [पवते गतिकर्मा। निघं० २।१४।] (व्रतानि) संकल्पाः कर्माणि वा (दूढ्या) दुर्धिया शत्रुणा (आधृषे न) आधर्षणाय न भवन्ति। हे मदीय अन्तरात्मन् ! (यः) योऽपि आन्तरो बाह्यो वा रिपुः (त्वा) त्वाम् (पृतन्यति) सेनया अभियाति, तम् (रुज) भङ्ग्धि ॥३॥
Essence
मनुष्यस्यान्तरात्मा प्रबोधनमुद्बोधनं च प्राप्य स्वशक्त्या सर्वान् आन्तरान् बाह्यांश्च रिपून् पराभूय देवासुरसंग्रामे विजेतुमर्हति ॥३॥
Subject
अथ स्वकीयमन्तरात्मानमुद्बोधयति।