Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1715

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣या꣡ नि꣢ज꣣घ्नि꣡रोज꣢꣯सा रथस꣣ङ्गे꣡ धने꣢꣯ हि꣣ते꣢ । स्त꣢वा꣣ अ꣡बि꣢꣯भ्युषा हृ꣣दा꣢ ॥१७१५॥

अ꣣या꣢ । नि꣣जघ्निः꣢ । नि꣣ । जघ्निः꣢ । ओ꣡ज꣢꣯सा । र꣣थसङ्गे꣢ । र꣣थ । सङ्गे꣢ । ध꣡ने꣢꣯ । हि꣣ते꣢ । स्त꣡वै꣢꣯ । अ꣡बि꣢꣯भ्युषा । अ । बि꣣भ्युषा । हृदा꣢ ॥१७१५॥

Mantra without Swara
अया निजघ्निरोजसा रथसङ्गे धने हिते । स्तवा अबिभ्युषा हृदा ॥

अया । निजघ्निः । नि । जघ्निः । ओजसा । रथसङ्गे । रथ । सङ्गे । धने । हिते । स्तवै । अबिभ्युषा । अ । बिभ्युषा । हृदा ॥१७१५॥

Samveda - Mantra Number : 1715
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे पवमान सोम ! हे पवित्रदायक सर्वान्तर्यामिन् जगदीश ! त्वम् (अया) अनेन (ओजसा) बलेन (निजघ्निः) कामक्रोधादीनां रिपूणां हन्ता असि। [निपूर्वाद् हन्तेः ‘आदृगमहनजनः किकिनौ लिट् च’ अ० ३।२।१७१ इत्यनेन किः प्रत्ययः, तस्य च लिड्वत्त्वाद् द्वित्वादिः।] (रथसङ्गे) मानवदेहरूपस्य रथस्य प्राप्तौ सत्याम् (धने हिते) दिव्यैश्वर्यस्य लाभाय, अङम् (अबिभ्युषा) निर्भयेन (हृदा) हृदयेन, त्वाम् (स्तवै) स्तौमि ॥२॥
Essence
हार्दिक्या श्रद्धया स्तुतो जगदीश्वरः स्तोत्रे सर्वानाभ्यन्तरान् बाह्यांश्च रिपून् विनाशयितुं बलं प्रदाय तमुपकुरुते ॥२॥
Subject
अथ परमात्मानं स्तौति।