Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1714

1875 Mantra
Devata- पवमानः सोमः Rishi- अवत्सारः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
उ꣢त्ते꣣ शु꣡ष्मा꣢सो अस्थू꣣ र꣡क्षो꣢ भि꣣न्द꣡न्तो꣢ अद्रिवः । नु꣣द꣢स्व꣣ याः꣡ प꣢रि꣣स्पृ꣡धः꣢ ॥१७१४॥

उ꣢त् । ते꣣ । शु꣡ष्मा꣢꣯सः । अ꣣स्थुः । र꣡क्षः꣢꣯ । भि꣣न्द꣡न्तः꣢ । अ꣣द्रिवः । अ । द्रिवः । नुद꣡स्व꣢ । याः । प꣣रिस्पृ꣡धः꣢ । प꣣रि । स्पृ꣡धः꣢꣯ ॥१७१४॥

Mantra without Swara
उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः । नुदस्व याः परिस्पृधः ॥

उत् । ते । शुष्मासः । अस्थुः । रक्षः । भिन्दन्तः । अद्रिवः । अ । द्रिवः । नुदस्व । याः । परिस्पृधः । परि । स्पृधः ॥१७१४॥

Samveda - Mantra Number : 1714
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अद्रिवः) न केनापि दीर्यते विनाश्यते यः तादृश पवमान सोम पवित्रतादायक सद्गुणकर्मप्रेरक जगदीश ! (ते) तव (शुष्मासः) बलानि (रक्षः) कामक्रोधादिकं षड्रिपुवर्गं व्याधिस्त्यानसंशयादिकं विघ्नसमूहं वा (भिन्दन्तः) विदारयन्तः (अस्थुः) दृढं तिष्ठन्ति। (याः परिस्पृधः) याः स्पर्धाशीलाः आभ्यन्तर्यो बाह्या वा शत्रुसेनाः सन्ति ताः, त्वम् (नुदस्व) विबाधस्व ॥१॥
Essence
परमेश्वराराधनेन मनुष्यः सर्वानान्तरान् बाह्यांश्च रिपून् विजेतुमपारं बलं साहसमुद्बोधनं च प्राप्नोति ॥१॥
Subject
तत्रादौ स्तुतिपूर्वकं परमेशः प्रार्थ्यते।