Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1712

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ऊ꣣र्ज्जो꣡ नपा꣢꣯त꣣मा꣡ हु꣢वे꣣ऽग्निं꣡ पा꣢व꣣क꣡शो꣢चिषम् । अ꣣स्मि꣢न्य꣣ज्ञे꣡ स्व꣢ध्व꣣रे꣢ ॥१७१२॥

ऊ꣣र्जः꣢ । न꣡पा꣢꣯तम् । आ । हु꣣वे । अ꣣ग्नि꣢म् । पा꣣वक꣡शो꣢चिषम् । पा꣣वक꣢ । शो꣣चिषम् । अस्मि꣢न् । य꣣ज्ञे꣢ । स्व꣣ध्वरे꣢ । सु꣣ । अध्वरे꣡ ॥१७१२॥

Mantra without Swara
ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषम् । अस्मिन्यज्ञे स्वध्वरे ॥

ऊर्जः । नपातम् । आ । हुवे । अग्निम् । पावकशोचिषम् । पावक । शोचिषम् । अस्मिन् । यज्ञे । स्वध्वरे । सु । अध्वरे ॥१७१२॥

Samveda - Mantra Number : 1712
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
अह्म् (अस्मिन्) एतस्मिन् (स्वध्वरे) शोभनः अध्वरः अहिंसाव्रताचारः यस्मिन् तादृशे (यज्ञे) जीवनयज्ञे (ऊर्जः) आत्मबलस्य प्राणशक्तेश्च। [ऊर्ज बलप्राणनयोश्चुरादिः।] (नपातम्) न पातयितारम्, प्रत्युत वर्धकम् (पावकशोचिषम्) शोधकदीप्तिम् (अग्निम्) अग्रनेतारं परमेशम् (आहुवे) आह्वयामि ॥२॥
Essence
मानवाः परमात्मोपासनया सत्प्रेरणां गृहीत्वा स्वकीयं जीवनं पावयन्तामुन्नयन्तां च ॥२॥
Subject
अथ परमेशमाह्वयति।