Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1711

1875 Mantra
Devata- अग्निः Rishi- विरूप आङ्गिरसः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
अ꣣ग्निः꣢ प्र꣣त्ने꣢न꣣ ज꣡न्म꣢ना꣣ शु꣡म्भा꣢नस्त꣣न्वा३ꣳ स्वा꣢म् । क꣣वि꣡र्विप्रे꣢꣯ण वावृधे ॥१७११॥

अ꣣ग्निः꣢ । प्र꣣त्ने꣡न꣢ । ज꣡न्म꣢꣯ना । शु꣡म्भा꣢꣯नः । त꣣न्व꣢म् । स्वाम् । क꣣विः꣢ । वि꣡प्रे꣢꣯ण । वि । प्रे꣣ण । वावृधे ॥१७११॥

Mantra without Swara
अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ꣳ स्वाम् । कविर्विप्रेण वावृधे ॥

अग्निः । प्रत्नेन । जन्मना । शुम्भानः । तन्वम् । स्वाम् । कविः । विप्रेण । वि । प्रेण । वावृधे ॥१७११॥

Samveda - Mantra Number : 1711
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 3;
(Rananiya) उत्तरार्चिकः: » Adhyay » 19; Khand » 1;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(कविः) मेधावी क्रान्तदर्शनो जीवात्मा (प्रत्नेन जन्मना) पूर्वेण जन्मना, पूर्वजन्मकृतकर्मसंस्कारवशादित्यर्थः (स्वाम्) स्वकीयाम् इहजन्मप्राप्ताम् (तन्वम्) तनूम् (शुम्भानः) सुशोभयन् (विप्रेण) विशेषेण प्राति ज्ञानेन पूरयतीति विप्रः आचार्यः तेन (वावृधे) वृद्धिं प्राप्नोति ॥१॥
Essence
पूर्वजन्मकृतकर्मफलभोगार्थं नूतनकर्मकरणार्थं च जीवो मानवं जन्म प्राप्नोति। मातुर्गर्भादुत्पन्नो मातापितृभ्यां यथायोग्यं पालितः शिक्षितश्च गुरुकुलं प्रविश्याचार्याद् गृहीतविद्यः कर्तव्याकर्तव्ये विज्ञाय सत्कर्माणि कृत्वाऽभ्युदयं निःश्रेयसं चाधिगन्तुं शक्नोति ॥१॥
Subject
तत्रादावग्निनाम्ना जीवात्मविषयमाह।