Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 171

1875 Mantra
Devata- इन्द्रः Rishi- मेधातिथिः काण्वः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
स꣡द꣢स꣣स्प꣢ति꣣म꣡द्भु꣢तं प्रि꣣य꣡मिन्द्र꣢꣯स्य꣣ का꣡म्य꣢म् । स꣣निं꣢ मे꣣धा꣡म꣢यासिषम् ॥१७१॥

स꣡द꣢꣯सः । प꣡ति꣢꣯म् । अ꣡द्भु꣢꣯तम् । अत् । भु꣣तम् । प्रिय꣢म् । इ꣡न्द्र꣢꣯स्य । का꣡म्य꣢꣯म् । स꣣नि꣢म् । मे꣣धा꣢म् । अ꣣यासिषम् ॥१७१॥

Mantra without Swara
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषम् ॥

सदसः । पतिम् । अद्भुतम् । अत् । भुतम् । प्रियम् । इन्द्रस्य । काम्यम् । सनिम् । मेधाम् । अयासिषम् ॥१७१॥

Samveda - Mantra Number : 171
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
प्रथमः—परमात्मपरः। अहम् (अद्भुतम्२) आश्चर्यमयगुणकर्मस्वभावम्, (इन्द्रस्य) शरीराधिष्ठातुर्जीवात्मनः (प्रियम्) प्रेमास्पदम्, (काम्यम्) उपासकानां स्पृहणीयम्, (सनिम्३) कृतानां पापपुण्यरूपाणां कर्मणां फलप्रदातारम्। षण सम्भक्तौ, षणु दाने वा धातोः खनिकष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचरिभ्यश्च उ० ४।१४ इत्यनेन इः प्रत्ययः. (सदसः पतिम्) हृदयरूपस्य ब्रह्माण्डरूपस्य वा यज्ञसदनस्य स्वामिनं परमात्मानम्। षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु अ० ८।३।५३ इति विसर्जनीयस्य सत्वम्। (मेधाम्) धारणावतीं बुद्धिम् (अयासिषम्) याचे। निघण्टौ (३।१९), यामि इत्यस्य याच्ञाकर्मसु पाठात् या धातुर्याचनार्थोऽपि विज्ञेयः। लडर्थे लुङ् ॥ अथ द्वितीयः—सभाध्यक्षपरः। अहम् (अद्भुतम्) इतरापेक्षया विशिष्टगुणकर्मस्वभावम्, अत एव (इन्द्रस्य) परमात्मनः (प्रियम्) स्नेहास्पदम्, (काम्यम्) सर्वैः प्रजाजनैः स्पृहणीयम्, (सनिम्) राष्ट्रे धनस्य संविभक्तारं, प्रजाभ्यः सत्कर्मणां पुरस्कारदातारम्, असत्कर्मणां च यथायोग्यं दण्डदातारं च (सदसः पतिम्४) राष्ट्रसभाया अध्यक्षं राजानाम् (मेधाम्) बुद्धिम् विद्याप्रचारमित्यर्थः, धनं च। मेधा मतौ धीयते। निरु० ३।१९। मेधा इति धननामसु पठितम्। निघं० २।१०। (अयासिषम्) याचे ॥ अथ तृतीयः—आचार्यपरः। अहम् (अद्भुतम्) ज्ञानविज्ञानयोः अपूर्वं निधिम्, (इन्द्रस्य) विद्याप्रचारकस्य राज्ञः (प्रियम्) प्रेमार्हम्, (काम्यम्) सर्वैर्विद्यार्थिभिः स्पृहणीयम्, (सनिम्) विविधविद्यानां व्रतानां च दातारम् (सदसः पतिम्) विद्यार्थिकुलस्याध्यक्षम् आचार्यम् (मेधाम्) विद्याबोधम् (अयासिषम्) याचे ॥७॥५ अत्र श्लेषालङ्कारः ॥७॥
Essence
ये मनुष्या अद्भुतगुणकर्मस्वभावम् अद्भुतज्ञानविज्ञानराशिं न्यायकारिणं प्रियं परमात्मानं, सभाध्यक्षं राजानम्, आचार्यं चोपगच्छन्ति ते मेधाविनः शास्त्रज्ञाः पुण्यकर्त्तारो धनवन्तश्च भूत्वा सुखिनो भवन्ति ॥७॥
Subject
अथ परमात्मानं सभाध्यक्षं राजानम् आचार्यं च मेधां याचमान आह।
Footnote
१. ऋ० १।१८।६, देवता सदसस्पतिः, य० ३२।१३ ऋषिः मेधाकामः, अन्ते स्वाहा इत्यधिकम्। २. इदमपि इतरद् अद्भुतम् अभूतमिव—इति निरु० १।६। अत् भुतम् इति पदकारः। अत् पूर्वाद् भवतेरद्भुतः—इति भ०। अदि भुवो डुतच् उ० ५।१। अनेन भू धातोः अदि उपपदे डुतच् प्रत्ययः—इति ऋ० १।१८।६ भाष्ये—द०। ३. (सनिम्) पापपुण्यानां विभागेन फलदातारम् इति ऋ० १।१८।६ भाष्ये, (सनिम्) सनन्ति संविभजन्ति सत्यासत्ये यया ताम् मेधाम् संगतां प्रज्ञाम् इति च य० ३२।१३ भाष्ये—द०। सनिं निधानम्। कस्य ? सामर्थ्याद् धनस्य—इति वि०। संभजनीयां दात्रीं फलानां, मेधां बुद्धिम्। सनिमिति मेधाविशेषणम्, सन्या मेधया इति बहुशः दर्शनात्—इति भ०। सनिं धनस्य दातारं (सदसस्पतिम्)—इति सा०। ४. (सदसः) सीदन्ति विद्वांसो धार्मिका न्यायाधीशाः यस्मिंस्तत् सदः सभा तस्य, अत्र अधिकरणे असुन् (पतिम्) स्वामिनम् इति ऋ० १।१८।६ भाष्ये—द०। ५. दयानन्दर्षिणा मन्त्रोऽयं ऋग्भाष्ये परमेश्वरपक्षे सभापतिपक्षे च, यजुर्भाष्ये च परमात्मपक्षे व्याख्यातः।