Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1709

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢ इ꣣दं꣡ प्र꣢तिपप्र꣣थे꣢ य꣣ज्ञ꣢स्य꣣꣬ स्व꣢꣯रुत्ति꣣र꣢न् । ऋ꣣तू꣡नुत्सृ꣢꣯जते व꣣शी꣢ ॥१७०९

यः꣢ । इ꣡द꣢म् । प्र꣣तिपप्रथे꣢ । प्र꣣ति । पप्रथे꣢ । य꣣ज्ञ꣡स्य꣢ । स्वः꣡ । उ꣣त्तिर꣢न् । उ꣣त् । तिर꣢न् । ऋ꣣तू꣢न् । उत् । सृ꣣जते । वशी꣢ ॥१७०९॥

Mantra without Swara
य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् । ऋतूनुत्सृजते वशी ॥१७०९

यः । इदम् । प्रतिपप्रथे । प्रति । पप्रथे । यज्ञस्य । स्वः । उत्तिरन् । उत् । तिरन् । ऋतून् । उत् । सृजते । वशी ॥१७०९॥

Samveda - Mantra Number : 1709
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) अग्निर्जगदीश्वरः (इदम्) एतद् ब्रह्माण्डम् (प्रतिपप्रथे) विस्तृणाति, अपि च (यज्ञस्य) प्रकाशप्रदातुः आदित्यस्य। [स यः स यज्ञोऽसौ स आदित्यः। श० १४।१।१।६।] (स्वः) प्रकाशम् (उत्तिरन्) विकिरन् (वशी) जगद्व्यवस्थां कामयमानः (ऋतून्) वसन्तग्रीष्मवर्षादीन् (उत्सृजते) निर्मिमीते, तं जगदीश्वरं वयम् ‘अजस्रं घर्मम् ईमहे’ इति पूर्वमन्त्रादाकृष्यते ॥२॥
Essence
अहो ! कीदृशोऽयं महिमा जगत्पतेर्यदसौ सूर्यमुत्पाद्य सर्वं सौरमण्डलं तद्द्वारेण सम्यक् सञ्चालयति ॥२॥
Subject
अथ जगदीश्वरस्य कर्तृत्वमाह।