Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1708

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
ऋ꣣ता꣡वा꣢नं वैश्वान꣣र꣢मृ꣣त꣢स्य꣣ ज्यो꣡ति꣢ष꣣स्प꣡ति꣢म् । अ꣡ज꣢स्रं घ꣣र्म꣡मी꣢महे ॥१७०८॥

ऋ꣣ता꣡वा꣢नम् । वै꣣श्वानर꣢म् । वै꣣श्व । नर꣢म् । ऋ꣣त꣡स्य꣢ । ज्यो꣡ति꣢꣯षः । प꣡ति꣢꣯म् । अ꣡ज꣢꣯स्रम् । अ । ज꣣स्रम् । घर्म꣢म् । ई꣣महे ॥१७०८॥

Mantra without Swara
ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् । अजस्रं घर्ममीमहे ॥

ऋतावानम् । वैश्वानरम् । वैश्व । नरम् । ऋतस्य । ज्योतिषः । पतिम् । अजस्रम् । अ । जस्रम् । घर्मम् । ईमहे ॥१७०८॥

Samveda - Mantra Number : 1708
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(ऋतावानम्) सत्यवन्तम्। [अत्र ‘छन्दसीवनिपौ’ अ० ५।२।१०९ इति वार्तिकेन वनिप् प्रत्ययः। ‘अन्येषामपि दृश्यते’ अ० ६।३।१३७ इति ऋतस्य दीर्घान्तादेशः।] (वैश्वानरम्) विश्वेषां नृणां हितम्, (ऋतस्य) जलस्य धनस्य वा। [ऋतमित्युदकनाम धननाम च। निघं० १।१२, २।१०।] (ज्योतिषः) प्रकाशस्य च (पतिम्) स्वामिनं पातारं वा जगदीश्वरं वयम् (अजस्रम्) अक्षयम् (घर्मम्) तेजः प्रतापं वा (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥१॥
Essence
यः स्वयं प्रतापी तेजस्वी सत्यवांश्च भवति स एवान्यांस्तथाविधान् कर्तुं शक्नोति ॥१॥
Subject
तत्रादौ जगदीश्वरं प्रार्थयते।