Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1707

1875 Mantra
Devata- अग्निः Rishi- भरद्वाजो बार्हस्पत्यः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
य꣢ उ꣣ग्र꣡ इ꣢व शर्य꣣हा꣢ ति꣣ग्म꣡शृ꣢ङ्गो꣣ न꣡ वꣳस꣢꣯गः । अ꣢ग्ने꣣ पु꣡रो꣢ रु꣣रो꣡जि꣢थ ॥१७०७॥

यः꣢ । उ꣡ग्रः꣢ । इ꣣व । शर्यहा꣢ । श꣣र्य । हा꣢ । ति꣣ग्म꣡शृ꣢ङ्गः । ति꣣ग्म꣢ । शृ꣣ङ्गः । न꣡ । व꣡ꣳस꣢꣯गः । अ꣡ग्ने꣢꣯ । पु꣡रः꣢꣯ । रु꣣रो꣡जि꣢थ ॥१७०७॥

Mantra without Swara
य उग्र इव शर्यहा तिग्मशृङ्गो न वꣳसगः । अग्ने पुरो रुरोजिथ ॥

यः । उग्रः । इव । शर्यहा । शर्य । हा । तिग्मशृङ्गः । तिग्म । शृङ्गः । न । वꣳसगः । अग्ने । पुरः । रुरोजिथ ॥१७०७॥

Samveda - Mantra Number : 1707
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अग्ने) अग्रनायक तेजस्विन् जगदीश ! (यः) यस्त्वम् (उग्रः इव) प्रचण्डः धनुर्धर इव (शर्यहा) शर्याणां हन्तव्यानां कामक्रोधादीनां शत्रूणां योगविघ्नानां व्याधिस्त्यानादीनां च हन्ता, (तिग्मशृङ्गः न) तीक्ष्णकिरणः सूर्य इव (वंसगः) वननीयगतिः संसेव्यश्च सन् (पुरः) शत्रुनगरीः शत्रुदुर्गपङ्क्तीर्वा (रुरोजिथ) भनक्षि। [रुजो भङ्गे, तुदादिः, सामान्यकाले लिट्।] तस्य ते शर्म शरणं वयम् अग्न्म इति पूर्वमन्त्रादाकृष्यते ॥३॥२ अत्रोपमालङ्कारः ॥३॥
Essence
परमेश्वरोपासनया प्राप्तबलो जनः सर्वानान्तरान् शत्रून् योगविघ्नांश्च पराजित्य लक्ष्यं प्रति जागरूकः सन्नभ्युदयं निःश्रेयसं च लभते ॥३॥
Subject
अत स परमेश्वरः कीदृशो यं वयं उपगच्छेमेत्याह।