Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1704

1875 Mantra
Devata- इन्द्राग्नी Rishi- विश्वामित्रः प्रागाथः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा꣢ग्नी नव꣣तिं꣡ पुरो꣢꣯ दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ॥१७०४॥

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नी꣡इति꣢ । न꣣वति꣢म् । पु꣡रः꣢꣯ । दा꣣स꣡प꣢त्नीः । दा꣣स꣢ । प꣣त्नीः । अ꣣धूनुतम् । सा꣣क꣢म् । ए꣡के꣢꣯न । क꣡र्म꣢꣯णा ॥१७०४॥

Mantra without Swara
इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् । साकमेकेन कर्मणा ॥

इन्द्राग्नी । इन्द्र । अग्नीइति । नवतिम् । पुरः । दासपत्नीः । दास । पत्नीः । अधूनुतम् । साकम् । एकेन । कर्मणा ॥१७०४॥

Samveda - Mantra Number : 1704
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) ब्राह्मणक्षत्रियौ ! (एकेन) अद्वितीयेन (कर्मणा) पुरुषार्थेन (साकम्) युगपत्, युवाम् (दासपत्नीः) दासाः उपक्षयितारः कामक्रोधादयोऽधार्मिका दुष्टजना वा पतयः स्वामिनो यासां ताः (नवतिं पुरः) नवतिसंख्यका अपि शत्रुनगरीः (अधूनुतम्) कम्पयतम्। [धूञ् कम्पने विध्यर्थे लङ्]॥३॥२
Essence
ब्राह्मणैर्विद्याया ब्रह्मवर्चसस्य च प्रसारं कृत्वा क्षत्रियैश्च शत्रुभ्यो राष्ट्ररक्षां विधाय राष्ट्रमुन्नेतव्यम् ॥३॥
Subject
तृतीया ऋग् उत्तरार्चिके १५७६ क्रमाङ्के परमात्मजीवात्मविषये व्याख्यातपूर्वा। अत्र ब्रह्मक्षत्रविषय उच्यते।