Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1701

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢मानास आ꣣श꣡वः꣢ शु꣣भ्रा꣡ अ꣢सृग्र꣣मि꣡न्द꣢वः । घ्न꣢न्तो꣣ वि꣢श्वा꣣ अ꣢प꣣ द्वि꣡षः꣢ ॥१७०१॥

प꣡व꣢꣯मानासः । आ꣣श꣡वः꣢ । शु꣣भ्राः꣢ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । घ्न꣡न्तः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣡प꣢꣯ । द्वि꣡षः꣢꣯ ॥१७०१॥

Mantra without Swara
पवमानास आशवः शुभ्रा असृग्रमिन्दवः । घ्नन्तो विश्वा अप द्विषः ॥

पवमानासः । आशवः । शुभ्राः । असृग्रम् । इन्दवः । घ्नन्तः । विश्वाः । अप । द्विषः ॥१७०१॥

Samveda - Mantra Number : 1701
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानासः) पवित्रतासम्पादकाः, (आशवः) त्वरिताः, (शुभ्राः) निर्मलाः (इन्दवः) क्लेदकाः ब्रह्मानन्दरसाः (विश्वाः) सर्वाः (द्विषः) द्वेषवृत्तीः (अपघ्नन्तः) हिंसन्तः (असृग्रम्) अन्तरात्मं सृज्यन्ते ॥३॥
Essence
यदा परमात्मोपासनया ब्रह्मानन्दरसाः स्तोतुरात्मनि समागच्छन्ति तदा सर्वा द्वेषवृत्तयः स्वयमेव समाप्यन्ते विश्वमैत्रीभावना च जागर्ति ॥३॥
Subject
अथ ब्रह्मानन्दरसान् वर्णयति।