Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 170

1875 Mantra
Devata- इन्द्रः Rishi- श्रुतकक्षः सुकक्षो वा आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
त्य꣡मु꣢ वः सत्रा꣣साहं꣣ वि꣡श्वा꣢सु गी꣣र्ष्वा꣡य꣢तम् । आ꣡ च्या꣢वयस्यू꣣त꣡ये꣢ ॥१७०॥

त्य꣢म् । उ꣣ । वः । सत्रासा꣡ह꣢म् । स꣣त्रा । सा꣡ह꣢꣯म् । वि꣡श्वा꣢꣯सु । गी꣣र्षु꣢ । आ꣡य꣢꣯तम् । आ । य꣣तम् । आ꣢ । च्या꣣वयसि । ऊत꣡ये꣢ ॥१७०॥

Mantra without Swara
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥

त्यम् । उ । वः । सत्रासाहम् । सत्रा । साहम् । विश्वासु । गीर्षु । आयतम् । आ । यतम् । आ । च्यावयसि । ऊतये ॥१७०॥

Samveda - Mantra Number : 170
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे स्तोतः ! त्वम् (त्यम् उ) तम् एव (सत्रासाहम्२) सत्रा सत्यमेव सहते मृष्यति नाऽसत्यमिति सत्राषाट्, यद्वा सत्रा सत्येन सहते अभिभवति शत्रून्, यः स सत्राषाट् तम्। सत्रा इति सत्यनाम। निघं० ३।१०। सत्रापूर्वात् षह मर्षणे अभिभवे च इति धातोः छन्दसि सहः। अ० ३।२।६३ इति ण्विः। (विश्वासु) सर्वासु (गीर्षु) वेदवाक्षु (आयतम्) विस्तीर्णम् इन्द्रम् वीरं परमेश्वरं राजानं च, त्वम् स्वात्मशासनाय राष्ट्रशासनाय च (वः) वृणुहि। वृञ् वरणे धातोर्लोडर्थे लुङि मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः। अ० २।४।८० इति च्लेर्लुक्। अडाभावश्छान्दसः। किञ्च (ऊतये) रक्षणाय (आ च्यावयसि) आच्यावय स्वाभिमुखं प्रेरय आवर्जय वा। च्युङ् गतौ, णिचि, लेटि रूपम् ॥६॥ अत्र अर्थश्लेषालङ्कारः ॥६॥
Essence
यथा राष्ट्रस्य प्रगतये रक्षणाय च सुयोग्यो राजा वरणीयो भवति, तथैवात्मनः प्रगतये रक्षणाय च सत्यगुणकर्मस्वभावः परमात्मा वरणीयः ॥६॥
Subject
अथ परमात्मनो नृपतेश्च वरणविषयमाह।
Footnote
१. ऋ० ८।९२।७, ऋषिः श्रुतकक्षः सुकक्षो वा। २. सत्राशब्दः सत्यवचनः सदाशब्दपर्यायो वा। सहिः अभिभवे मर्षणे च। अत्र सहिः अभिभवार्थः। सत्येन सर्वदा वा शत्रूणामभिभवितारम्—इति वि०। विश्वस्याभिभवितारं सर्वदा अभिभवितारम् इति वा—इति भ०। सत्राशब्दो बहुवाची। बहूनामभिभवितारम्। यद्वा, शत्रून् स्वबलेन सङ्गत्य जेतारम्—इति सा०।