Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 17

1875 Mantra
Devata- अग्निः Rishi- शुनः शेप आजीगर्तिः Chhand- गायत्री Swara- षड्जः Kaand Name- आग्नेयं काण्डम् Gaan- प्रकृति गान Gaan Parva- आग्नेयं पर्व
Mantra with Swara
अ꣢श्वं꣣ न꣢ त्वा꣣ वा꣡र꣢वन्तं व꣣न्द꣡ध्या꣢ अ꣣ग्निं꣡ नमो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तमध्व꣣रा꣡णा꣢म् ॥१७॥

अ꣡श्व꣢꣯म् । न । त्वा꣣ । वा꣡र꣢꣯वन्तम् व꣣न्द꣡ध्यै꣢ । अ꣣ग्नि꣢म् न꣡मो꣢꣯भिः । स꣣म्रा꣡ज꣢न्तम् । स꣣म् । रा꣡ज꣢꣯न्तम् । अ꣣ध्वरा꣡णा꣢म् ॥१७॥

Mantra without Swara
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः । सम्राजन्तमध्वराणाम् ॥

अश्वम् । न । त्वा । वारवन्तम् वन्दध्यै । अग्निम् नमोभिः । सम्राजन्तम् । सम् । राजन्तम् । अध्वराणाम् ॥१७॥

Samveda - Mantra Number : 17
(Kauthum) पूर्वार्चिकः: » Prapathak » 1; Ardh Prapathak » 1; Dashati » 2;
(Rananiya) पूर्वार्चिकः: » Adhyay » 1; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वारवन्तम्२) वारैः दंशमशकादिनिवारकैर्बालैः युक्तम् (अश्वम्) वाजिनम् (न) इव (वारवन्तम्) वारैः विपत्तिनिवारणसामर्थ्यैः युक्तम्। वाराः बालाः दंशवारणार्था भवन्ति इति निरुक्तम् १।२०। तथैव वारयति विपदादिकमेभिरिति वाराः निवारणसामर्थ्यानि। (अध्वराणाम्३) हिंसादिदोषवर्जितानां यज्ञानाम् (सम्राजन्तम्) सम्राडिवाचरन्तम्। सम्राडिवाचरतीति सम्राजति, सर्वप्रातिपदिकेभ्यः क्विब् वा वक्तव्यः। अ० ३।१।११ वा० इत्याचारार्थे क्विप्। शतरि द्वितीयैकवचने सम्राजन्तमिति रूपम्। (त्वा) त्वाम् (अग्निम्) तेजस्विनं परमात्मानम् (नमोभिः) नमस्कारैः (वन्दध्यै) वन्दितुम्। वदि अभिवादनस्तुत्योः। तुमर्थे सेसेनसेऽसेन्क्सेकसेनध्यैअध्यैन्०।’ अ० ३।४।९ इति तुमर्थे अध्यै प्रत्ययः। आहुवे आह्वयामि इत्युत्तरमन्त्रादाकृष्यते ॥७॥ अश्वं न त्वा वारवन्तम् इत्यत्र श्लिष्टोपमालङ्कारः। सम्राजन्तम् अध्वराणाम् इत्यत्र लुप्तोपमा ॥७॥
Essence
अश्वो यथा बालैर्दंशमशकादीन् निवारयति तथा परमेश्वरः स्वनिवारणसामर्थ्यैर्विपदादिकं निवारयति। यथा सम्राट् स्वकीये राज्ये सर्वेषां प्रभुस्तथा परमात्मा विविधयज्ञानां प्रभुः। अतो ध्यानयज्ञे श्रद्धया स सर्वैराह्वातव्यः ॥७॥
Subject
अथ वन्दितुं परमात्मानमाह्वयति।
Footnote
१. ऋ० १।२७।१, साम० १६३४। २. प्रशंसायां मतुप्। प्रशस्तकेसरवन्तम् अश्वमिवेति अर्चिष्ठत्वस्य उपमा—इति भ०। ३. राज्यपालनाग्निहोत्रादिशिल्पान्तानां यज्ञानां मध्ये इति ऋ० १।२७।१ भाष्ये द०। तत्र दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः, भौतिकाग्नेः परमेश्वरस्य चापि संकेतः कृतः।