Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1699

1875 Mantra
Devata- पवमानः सोमः Rishi- निध्रुविः काश्यपः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
प꣡व꣢माना असृक्षत꣣ सो꣡माः꣢ शु꣣क्रा꣢स꣣ इ꣡न्द꣢वः । अ꣣भि꣡ विश्वा꣢꣯नि꣣ का꣡व्या꣢ ॥१६९९॥

प꣡व꣢꣯मानाः । अ꣣सृक्षत । सो꣡माः꣢꣯ । शु꣣क्रा꣡सः꣢ । इ꣡न्द꣢꣯वः । अ꣣भि꣢ । वि꣡श्वा꣢꣯नि । का꣡व्या꣢꣯ ॥१६९९॥

Mantra without Swara
पवमाना असृक्षत सोमाः शुक्रास इन्दवः । अभि विश्वानि काव्या ॥

पवमानाः । असृक्षत । सोमाः । शुक्रासः । इन्दवः । अभि । विश्वानि । काव्या ॥१६९९॥

Samveda - Mantra Number : 1699
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 4;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(पवमानाः) स्वात्मानम् इतरांश्च पुनानाः, (शुक्रासः) तेजस्विनः, (इन्दवः) स्वकीयेन काव्यरसेन सहृदयानां क्लेदकाः (सोमाः) शान्ताः विद्वांसः कविजनाः (विश्वानि काव्या) विविधानि भक्तिरसकाव्यानि (असृक्षत) सृजन्ति ॥१॥
Essence
भगवदुपासकाः कविजना एव भक्तिरसकाव्यानि स्रष्टुं प्रभवन्ति ॥१॥
Subject
तत्रादौ कविकर्म वर्ण्यते।