Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1698

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
य꣢ उ꣣ग्रः꣡ सन्ननि꣢꣯ष्टृतः स्थि꣣रो꣡ रणा꣢꣯य꣣ स꣡ꣳस्कृ꣢तः । य꣡दि꣢ स्तो꣣तु꣢र्म꣣घ꣡वा꣢ शृ꣣ण꣢व꣣द्ध꣢वं꣣ ने꣡न्द्रो꣢ योष꣣त्या꣡ ग꣢मत् ॥१६९८॥

यः । उ꣣ग्रः꣢ । सन् । अ꣡नि꣢꣯ष्टृतः । अ । नि꣣ष्टृतः । स्थिरः꣢ । र꣡णा꣢꣯य । स꣡ꣳस्कृ꣢꣯तः । सम् । कृ꣣तः । य꣡दि꣢ । स्तो꣣तुः꣢ । म꣣घ꣡वा꣢ । शृ꣣ण꣡व꣢त् । ह꣡व꣢꣯म् । न । इ꣡न्द्रः꣢꣯ । यो꣣षति । आ꣢ । ग꣣मत् ॥१६९८॥

Mantra without Swara
य उग्रः सन्ननिष्टृतः स्थिरो रणाय सꣳस्कृतः । यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥

यः । उग्रः । सन् । अनिष्टृतः । अ । निष्टृतः । स्थिरः । रणाय । सꣳस्कृतः । सम् । कृतः । यदि । स्तोतुः । मघवा । शृणवत् । हवम् । न । इन्द्रः । योषति । आ । गमत् ॥१६९८॥

Samveda - Mantra Number : 1698
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(यः) इन्द्रो जगदीश्वरः (उग्रः सन्) अधार्मिकाणां कृते प्रचण्डः सन् (अनिष्टृतः) तैः अनुपहिंसितो भवति। [स्तृतः इत्यत्र स्तृणातिर्हन्तिकर्मा। निघं० २।१९। निपूर्वो निष्टृतः, न निष्टृतः अनिष्टृतः।] अपि च, (स्थिरः) अविचलः सन् (रणाय) असुरैः सह युद्धाय (संस्कृतः) सज्जितो जायते, सः (मघवा) ऐश्वर्यवान्(इन्द्रः) जगदीश्वरः (यदि) चेत् (स्तोतुः) उपासकस्य (हवम्) आह्वानम् (शृणवत्) शृणुयात्, तर्हि (न योषति) पृथक् न तिष्ठेत्।[यु मिश्रणामिश्रणयोः, लेटि सिबागमे अडागमे च तिपि रूपम्।] प्रत्युत (आ गमत्) तस्यान्तःकरणम् उपागच्छेत् ॥३॥
Essence
उपासकस्य हृदयान्निःसृतमाह्वानं जगदीश्वरोऽवश्यं शृणोति, दस्युभिः सह युद्धे च तस्मै बलं दत्त्वा तस्य साहाय्यं करोति ॥३॥ अस्मिन् खण्डे परमात्मो जीवात्मन उपास्योपासकसम्बन्ध- स्याऽऽत्ममनसोश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥
Subject
अथ पुनस्तमेव विषयमाह।