Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1697

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
दा꣣ना꣢ मृ꣣गो꣡ न वा꣢꣯र꣣णः꣡ पु꣢रु꣣त्रा꣢ च꣣र꣡थं꣢ दधे । न꣡ कि꣢ष्ट्वा꣣ नि꣡ य꣢म꣣दा꣢ सु꣣ते꣡ ग꣢मो म꣣हा꣡ꣳश्च꣢र꣣स्यो꣡ज꣢सा ॥१६९७॥

दा꣣ना꣢ । मृ꣣गः꣢ । न । वा꣣रणः꣢ । पु꣣रुत्रा꣢ । च꣣र꣡थ꣢म् । द꣣धे । न꣢ । किः꣣ । त्वा । नि꣢ । य꣣मत् । आ꣢ । सु꣣ते꣢ । ग꣣मः । महा꣢न् । च꣣रसि । ओ꣡ज꣢꣯सा ॥१६९७॥

Mantra without Swara
दाना मृगो न वारणः पुरुत्रा चरथं दधे । न किष्ट्वा नि यमदा सुते गमो महाꣳश्चरस्योजसा ॥

दाना । मृगः । न । वारणः । पुरुत्रा । चरथम् । दधे । न । किः । त्वा । नि । यमत् । आ । सुते । गमः । महान् । चरसि । ओजसा ॥१६९७॥

Samveda - Mantra Number : 1697
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वारणः) गजः (मृगः) पशुः (न) यथा (चरथम्) गण्डस्थलयोः संचरणशीलम् (दाना) दानं मदजलम् (दधे) धारयति, तथा (वारणः) विपन्निवारकः (मृगः) सज्जनानामन्वेष्टा इन्द्रः जगदीश्वरः (पुरुत्रा) बहुम् [‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्’। अ० ५।४।५६ इति द्वितीयार्थे त्रा प्रत्ययः।] (चरथम्) संचरणशीलं (दाना) आनन्दस्य दानम् (दधे) धारयति। हे इन्द्र जगदीश्वर ! त्वम् (सुते) अस्माकं भक्तिरसे अभिषुते सति (आ गमः) आगच्छ। (त्वा) आगच्छन्तं त्वाम् (न किः) न कोऽपि (नि यमत्) नियच्छतु, निवारयतु। (महान्) महिमवान् त्वम् (ओजसा) प्रतापेन साकम् (चरसि) सर्वत्र व्याप्नोषि ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥
Essence
यथा गजो गण्डलस्थलयोर्मदजलं प्रवाहयति तथा परमेश्वर उपासकान् प्रत्यानन्दरसं स्रावयति ॥२॥
Subject
अथ जगदीश्वरं वर्णयति।