Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1696

1875 Mantra
Devata- इन्द्रः Rishi- मेध्यातिथिः काण्वः Chhand- बृहती Swara- मध्यमः
Mantra with Swara
क꣡ ईं꣢ वेद सु꣣ते꣢꣫ सचा꣣ पि꣡ब꣢न्तं꣣ कद्वयो꣢꣯ दधे । अ꣣यं यः पुरो꣢꣯ विभि꣣नत्त्योज꣢꣯सा मन्दा꣣नः꣢ शि꣣प्र्य꣡न्ध꣢सः ॥१६९६॥

कः꣢ । ई꣣म् । वेद । सुते꣢ । स꣡चा꣢꣯ । पि꣡ब꣢꣯न्तम् । कत् । व꣡यः꣢꣯ । द꣣धे । अय꣢म् । यः । पु꣡रः꣢꣯ । वि꣣भि꣡न꣢त्ति । वि꣣ । भि꣡नत्ति꣢ । ओ꣡ज꣢꣯सा । म꣣न्दानः꣢ । शि꣣प्री꣢ । अ꣡न्ध꣢꣯सः ॥१६९६॥

Mantra without Swara
क ईं वेद सुते सचा पिबन्तं कद्वयो दधे । अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥

कः । ईम् । वेद । सुते । सचा । पिबन्तम् । कत् । वयः । दधे । अयम् । यः । पुरः । विभिनत्ति । वि । भिनत्ति । ओजसा । मन्दानः । शिप्री । अन्धसः ॥१६९६॥

Samveda - Mantra Number : 1696
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(सुते) उपासकस्य भक्तिरसेऽभिषुते सति (सचा) युगपत्(ईम्) एवं भक्तिरसम् (पिबन्तम्) आस्वादयन्तम् इन्द्रं परमात्मानम् (कः वेद) को जानाति ? (कत्) कदा, असौ उपासकस्यान्तरात्मनि (वयः) आनन्दरसम् (दधे) निदधाति इत्यपि (कः वेद) को जानातीति प्रश्नः। तदुत्तरमाह—(अयं यः) य एष (शिप्री) सृप्री, विस्तीर्णबलः उपासकः (अन्धसः) आनन्दरसात् (मन्दानः) उत्साहं प्राप्नुवन् (ओजसा) आत्मबलेन (पुरः) आभ्यन्तराणामसुराणां दुर्गपङ्क्तीः(विभिनत्ति) विदारयति, स एव जानातीति ॥१॥
Essence
कथं परमात्मा भक्तस्य भक्तिरसे निमग्नो जायते कथं चोपासको भगवतो ब्रह्मानन्दरसे इति कृतात्मसमर्पणो भगवद्भक्त एव जानाति, नान्यः कश्चिदननुभूतभक्तिप्रसादो जनः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २९७ क्रमाङ्के परमात्मविषये व्याख्याता। अत्र प्रश्नोत्तरशैल्या उपास्योपासकविषयमाह।