Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1693

1875 Mantra
Devata- इन्द्राग्नी Rishi- विश्वामित्रः प्रागाथः Chhand- गायत्री Swara- षड्जः
Mantra with Swara
इ꣡न्द्रा꣢ग्नी रोच꣣ना꣢ दि꣣वः꣢꣫ परि꣣ वा꣡जे꣢षु भूषथः । त꣡द्वां꣢ चेति꣣ प्र꣢ वी꣣꣬र्य꣢꣯म् ॥१६९३॥

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣣ग्नीइ꣡ति꣢ । रो꣣चना꣢ । दि꣡वः꣢ । प꣡रि꣢꣯ । वा꣡जे꣢꣯षु । भू꣣षथः । त꣢त् । वा꣣म् । चेति । प्र꣢ । वी꣣र्यम्꣢ ॥१६९३॥

Mantra without Swara
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ॥

इन्द्राग्नी । इन्द्र । अग्नीइति । रोचना । दिवः । परि । वाजेषु । भूषथः । तत् । वाम् । चेति । प्र । वीर्यम् ॥१६९३॥

Samveda - Mantra Number : 1693
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (इन्द्राग्नी) आत्ममनसी ! युवाम् (वाजेषु) देवासुरसंग्रामेषु(दिवः) प्रकाशकस्य परमात्मनः (रोचना) रोचनाम् दीप्तिम्(परि भूषथः) परिप्राप्नुथः। [भू प्राप्तौ, लेटि रूपम्। रोचना इत्यत्र‘सुपां सुलुक्०’ अ० ७।१।३९ इति द्वितीयैकवचनस्य लुक्।] (तत्) प्रसिद्धम् (वाम्) युवयोः (वीर्यम्) बलम् (प्र चेति) सर्वैः प्रकृष्टतया ज्ञायते ॥१॥२
Essence
आभ्यन्तरे देवासुरसंग्रामे सर्वानासुरान् भावान् पराजित्य मनुष्यस्यात्मा मनश्च परमात्मप्राप्तिलक्ष्यं लब्धुमर्हतः ॥१॥
Subject
तत्रादावात्मनो मनसश्च विषय उच्यते।