Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1692

1875 Mantra
Devata- इन्द्रः Rishi- कलिः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
वृ꣡क꣢श्चिदस्य वार꣣ण꣡ उ꣢रा꣣म꣢थि꣣रा꣢ व꣣यु꣡ने꣢षु भूषति । से꣢꣫मं न꣣ स्तो꣡मं꣢ जुजुषा꣣ण꣢꣫ आ ग꣣ही꣢न्द्र꣣ प्र꣢ चि꣣त्र꣡या꣢ धि꣣या꣢ ॥१६९२॥

वृ꣡कः꣢꣯ । चि꣣त् । अस्य । वारणः꣢ । उ꣣राम꣡थिः꣢ । उ꣣रा । म꣡थिः꣢꣯ । आ । व꣣यु꣡ने꣢षु । भू꣣षति । सा꣢ । इ꣣म꣢म् । नः꣣ । स्तो꣡म꣢꣯म् । जु꣣जुषाणः꣢ । आ । ग꣣हि । इ꣡न्द्र꣢꣯ । प्र । चि꣣त्र꣡या । धि꣣या꣢ ॥१६९२॥

Mantra without Swara
वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति । सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥

वृकः । चित् । अस्य । वारणः । उरामथिः । उरा । मथिः । आ । वयुनेषु । भूषति । सा । इमम् । नः । स्तोमम् । जुजुषाणः । आ । गहि । इन्द्र । प्र । चित्रया । धिया ॥१६९२॥

Samveda - Mantra Number : 1692
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वारणः) रोगादीनां निवारकः (उरामथिः) विस्तीर्णतमोनाशकः (वृकः चित्) सूर्यः इव (अस्य) इन्द्रस्य जगदीश्वरस्य तव (वारणः) दुःखादीनां निवारकः प्रतापः (वयुनेषु) तव कर्मसु (आ भूषति) भूषणभूतोऽस्ति। [आदित्योऽपि वृक उच्यते, यदावृङ्क्ते। निरु० ५।२१। ऊर्णुते आच्छादयतीति उरा। यद्वा, ओरति सर्वत्र व्याप्नोतीति उरा, उर गतौ भ्वादिः। चिदित्युपमार्थको निरुक्ते व्याख्यातः। १।४, ३।१६।] (सः) असौ त्वम् हे (इन्द्र) परमात्मन् ! (नः) अस्माकम् (इमम्) एतम् (स्तोमम्) स्तोत्रम् (जुजुषाणः) सेवमानः (चित्रया धिया) अद्भुतया प्रज्ञया क्रियया वा सह (प्र आ गहि) प्रकर्षेण अस्मान् आगच्छ। [संहितायां ‘सेमं’ इत्यत्र ‘सोऽचि लोपे चेत् पादपूरणम्’। अ० ६।१।१३४ इत्यनेन ‘सः’ इत्यस्य सोर्लोपे सन्धिः] ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥
Essence
यस्य जगदीश्वरस्य प्रतापः सूर्य-प्रकाश इव सर्वत्र प्रसरति स सर्वैः श्रद्धयोपासनीयः ॥२॥
Subject
अथ परमात्मानमाह्वयति।