Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1691

1875 Mantra
Devata- इन्द्रः Rishi- कलिः प्रागाथः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
व꣣य꣡मे꣢नमि꣣दा꣡ ह्योऽपी꣢꣯पेमे꣣ह꣢ व꣣ज्रि꣡ण꣢म् । त꣡स्मा꣢ उ अ꣣द्य꣡ सव꣢꣯ने सु꣣तं꣢ भ꣣रा꣢ नू꣣नं꣡ भू꣢षत श्रु꣣ते꣢ ॥१६९१॥

व꣣य꣢म् । ए꣣नम् । इदा꣢ । ह्यः । अ꣡पी꣢꣯पेम । इ꣣ह꣢ । व꣣ज्रि꣡ण꣢म् । त꣡स्मै꣢꣯ । उ꣣ । अद्य꣢ । अ꣣ । द्य꣢ । स꣡व꣢꣯ने । सु꣣त꣢म् । भ꣣र । आ꣢ । नू꣣न꣢म् । भू꣣षत । श्रुते꣢ ॥१६९१॥

Mantra without Swara
वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् । तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥

वयम् । एनम् । इदा । ह्यः । अपीपेम । इह । वज्रिणम् । तस्मै । उ । अद्य । अ । द्य । सवने । सुतम् । भर । आ । नूनम् । भूषत । श्रुते ॥१६९१॥

Samveda - Mantra Number : 1691
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वयम्) कर्मयोगिनो जनाः (एनम्) एतम् (वज्रिणम्) वाग्वज्रयुक्तं स्वान्तरात्मानम् (इदा) अस्मिन् काले (ह्यः) गते च काले (इह) जीवनयज्ञे (अपीपेम) अवर्धयाम। [ओप्यायी वृद्धौ, प्यायः पी आदेशः।] हे भ्रातः ! त्वमपि (तस्मै उ) तस्मै अन्तरात्मने खलु (अद्य) अस्मिन् दिने (सवने) कर्मयोगयज्ञे(सुतम्) अभिषुतं वीररसम् (भर) अर्पय। हे सखायः ! यूयं सर्वेऽपि (नूनम्) निश्चयेन (श्रुते) शास्त्रज्ञाने, स्वान्तरात्मानम्(आ भूषत) अलङ्कुरुत ॥१॥
Essence
सर्वैर्जनैः स्वान्तरात्मानमुद्बोध्य वीरकर्माणि कर्तव्यानि विविधविद्यानां ज्ञानं च सञ्चेतव्यम् ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २७२ क्रमाङ्के परमात्मनृपत्योर्विषये व्याख्याता। अत्र जीवात्मविषय उच्यते।