Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1690

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
स꣡ मा꣢मृजे ति꣣रो꣡ अण्वा꣢꣯नि मे꣣꣬ष्यो꣢꣯ मी꣣ढ्वा꣢꣫न्त्सप्ति꣣र्न꣡ वा꣢ज꣣युः꣢ । अ꣣नु꣢माद्यः꣣ प꣡व꣢मानो मनी꣣षि꣢भिः꣣ सो꣢मो꣣ वि꣡प्रे꣢भि꣣रृ꣡क्व꣢भिः ॥१६९०॥

सः꣢ । मा꣣मृजे । तिरः꣢ । अ꣡ण्वा꣢꣯नि । मे꣣ष्यः꣢ । मी꣣ढ्वा꣢न् । स꣡प्तिः꣢꣯ । न । वा꣣जयुः꣢ । अ꣣नुमा꣡द्यः꣢ । अ꣣नु । मा꣡द्यः꣢꣯ । प꣡व꣢꣯मानः । म꣣नीषि꣡भिः꣢ । सो꣡मः꣢꣯ । वि꣡प्रे꣢꣯भिः । वि । प्रे꣣भिः । ऋ꣡क्व꣢꣯भिः ॥१६९०॥

Mantra without Swara
स मामृजे तिरो अण्वानि मेष्यो मीढ्वान्त्सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥

सः । मामृजे । तिरः । अण्वानि । मेष्यः । मीढ्वान् । सप्तिः । न । वाजयुः । अनुमाद्यः । अनु । माद्यः । पवमानः । मनीषिभिः । सोमः । विप्रेभिः । वि । प्रेभिः । ऋक्वभिः ॥१६९०॥

Samveda - Mantra Number : 1690
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(वाजयुः) अन्नकामः (सप्तिः न) अश्वः इव (वाजयुः) बलविज्ञानकामः, (मीढ्वान्) अन्येषु सुखस्य सेक्ता, (मेष्यः) ज्ञानसेक्त्र्याः वेदवाचः। [मिषु सेचने भ्वादिः। मेषति ज्ञानं सिञ्चतीति मेषी वेदवाक् तस्याः।] (अण्वानि) सूक्ष्माणि विज्ञानतत्त्वानि (तिरः) प्राप्य। [तिरः सतः इति प्राप्तस्य निरु० ३।२०।] (पवमानः) स्वात्मानं पवित्रयन् (सः) असौ (सोमः) जीवात्मा (मनीषिभिः) मननशीलैः (ऋक्वभिः) वेदज्ञैः। [ऋचो येषां सन्तीति ते ऋक्वाणः तैः। ‘छन्दसीवनिपौ’ अ० ५।२।१०९ इति वनिप् प्रत्ययः।] (विप्रेभिः) विद्वद्भिः (अनुमाद्यः) अनुहर्षणीयः, उद्बोधनीयः सन् (मामृजे) सद्गुणकर्मभिः अलङ्क्रियते ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥
Essence
सर्वैर्मनुष्यैर्वेदानधीत्य स्वात्मशक्तिं परिज्ञाय सदाचारिणां विदुषां सङ्गेन स्वात्मोन्नतिः सततं कार्या ॥२॥
Subject
अथ पुनरपि जीवात्मविषयं प्राह।