Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1689

1875 Mantra
Devata- पवमानः सोमः Rishi- सप्तर्षयः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
आ꣡ सो꣢म स्वा꣣नो꣡ अद्रि꣢꣯भिस्ति꣣रो꣡ वारा꣢꣯ण्य꣣व्य꣡या꣢ । ज꣢नो꣣ न꣢ पु꣣रि꣢ च꣣꣬म्वो꣢꣯र्विश꣣द्ध꣢रिः꣣ स꣢दो꣣ व꣡ने꣢षु दध्रिषे ॥१६८९॥

आ꣢ । सो꣣म । स्वानः꣢ । अ꣡द्रि꣢꣯भिः । अ । द्रि꣣भिः । तिरः꣢ । वा꣡रा꣢꣯णि । अ꣣व्य꣡या꣢ । ज꣡नः꣢꣯ । न । पु꣣रि꣢ । च꣣म्वोः꣢ । वि꣣शत् । ह꣡रिः꣢꣯ । स꣡दः꣢꣯ । व꣡ने꣢꣯षु । द꣣ध्रिषे ॥१६८९॥

Mantra without Swara
आ सोम स्वानो अद्रिभिस्तिरो वाराण्यव्यया । जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥

आ । सोम । स्वानः । अद्रिभिः । अ । द्रिभिः । तिरः । वाराणि । अव्यया । जनः । न । पुरि । चम्वोः । विशत् । हरिः । सदः । वनेषु । दध्रिषे ॥१६८९॥

Samveda - Mantra Number : 1689
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोम) ज्ञानरसास्वादक जीवात्मन् ! (अद्रिभिः) आदरयोग्यैः गुरुजनैः। [आद्रियन्ते इति अद्रयस्तैः।] (स्वानः) प्रेर्यमाणः त्वम् (अव्यया) अव्ययानि, भौतिकानि (वाराणि) आच्छादकानि विघ्नादीनि (तिरः) तिरस्कुरु। [अविः पृथिवी, तस्या इमानि अव्ययानि भौतिकानि। ‘इयं पृथिवी वा अविरियं हीमाः सर्वाः प्रजा अवति’ श० ६।१।२।३३।] अथ परोक्षकृतमाह—एषः (हरिः) ज्ञानाहरणशीलः जीवात्मा(चम्वोः) मस्तिष्कहृदययोः (विशत्) प्रविशति, (जनः न)कश्चिद् मनुष्यो यथा (पुरि) नगर्याम् प्रविशति तद्वत्। अथ पुनः प्रत्यक्षकृतमाह—हे जीवात्मन् ! त्वम् (वनेषु) वननीयेषु इन्द्रियेषु प्राणेषु चापि (सदः) निवासम् (दध्रिषे) धारयसि ॥१॥
Essence
योऽयं जीवात्मा देहं प्रविश्याणुपरिमाणोऽपि सन् स्वसामर्थ्येनाङ्गमङ्गं प्रविशति तेन जीवने योगमार्गे वा समागतान् सर्वान् विघ्नान् दूरीकृत्य विजयः प्राप्तव्यः ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ५१३ क्रमाङ्के परमात्मानं सम्बोधिता। अत्र जीवात्मा सम्बोध्यते।