Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1688

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
वि꣡भू꣢तरातिं विप्र चि꣣त्र꣡शो꣢चिषम꣣ग्नि꣡मी꣢डिष्व य꣣न्तु꣡र꣢म् । अ꣣स्य꣡ मेध꣢꣯स्य सो꣣म्य꣡स्य꣢ सोभरे꣣ प्रे꣡म꣢ध्व꣣रा꣢य꣣ पू꣡र्व्य꣢म् ॥१६८८॥

वि꣡भू꣢꣯तरातिम् । वि꣡भू꣢꣯त । रा꣡तिम् । विप्र । वि । प्र । चित्र꣡शो꣢चिषम् । चि꣣त्र꣢ । शो꣣चिषम् । अग्नि꣢म् । ई꣣डिष्व । यन्तु꣡र꣢म् । अ꣣स्य꣢ । मे꣡ध꣢꣯स्य । सो꣣म्य꣡स्य꣢ । सो꣣भरे । प्र꣢ । ई꣣म् । अध्वरा꣡य꣢ । पू꣡र्व्य꣢꣯म् ॥१६८८॥

Mantra without Swara
विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥

विभूतरातिम् । विभूत । रातिम् । विप्र । वि । प्र । चित्रशोचिषम् । चित्र । शोचिषम् । अग्निम् । ईडिष्व । यन्तुरम् । अस्य । मेधस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥१६८८॥

Samveda - Mantra Number : 1688
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सोभरे) सुष्ठु स्तोमानाम् आहर्तः [सुष्ठु आहरति स्तोमान् इति सोहरिः, स एव सोभरिः ‘हृग्रहोर्भश्छन्दसि’। वा० ८।२।३५ इति हस्य भः।] (विप्र) विद्वन् ! (विभूतरातिम्) व्यापकदानम्, (चित्रशोचिषम्) अद्भुतदीप्तिम्, (अस्य) एतस्य (सोम्यस्य) ब्रह्मानन्दरूपसोमसम्पादिनः (मेधस्य) उपासनायज्ञस्य(यन्तुरम्) यन्तारम्, (पूर्व्यम्) सनातनम् (ईम्) एनम् (अग्निम्) अग्रनेतारं जगदीश्वरम् (अध्वराय) जीवनयज्ञस्य साफल्याय (प्र ईडिष्व) प्रकर्षेण स्तुहि ॥२॥
Essence
जीवनयज्ञस्य पूर्णतायै मनुष्यैरुपासनायज्ञोऽनुष्ठेयः ॥२॥
Subject
अथ पुनरपि परमात्मस्तुतिविषयमाह।