Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1687

1875 Mantra
Devata- अग्निः Rishi- सौभरि: काण्व: Chhand- काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) Swara- ऋषभः
Mantra with Swara
तं꣡ गू꣢र्धया꣣꣬ स्व꣢꣯र्णरं दे꣣वा꣡सो꣢ दे꣣व꣡म꣢र꣣तिं꣡ द꣢धन्विरे । दे꣣वत्रा꣢ ह꣣व्य꣡मू꣢हिषे ॥१६८७॥

त꣢म् । गू꣢꣯र्धय । स्व꣡र्णरम् । स्वः꣡ । न꣣रम् । देवा꣡सः꣢ । दे꣣व꣢म् । अ꣣रति꣢म् । द꣣धन्विरे । देवत्रा꣢ । ह꣣व्य꣡म् । ऊ꣣हिषे ॥१६८७॥

Mantra without Swara
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमूहिषे ॥

तम् । गूर्धय । स्वर्णरम् । स्वः । नरम् । देवासः । देवम् । अरतिम् । दधन्विरे । देवत्रा । हव्यम् । ऊहिषे ॥१६८७॥

Samveda - Mantra Number : 1687
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मानव ! त्वम् (तम्) प्रसिद्धम्, (स्वर्णरम्) ब्रह्मानन्दस्य दिव्यप्रकाशस्य वा प्रापयितारम् अग्निम् जगन्नायकं परमात्मानम् (गूर्धय) अर्च। [गूर्धयतिः अर्चतिकर्मा। निघं० ३।१४] (देवासः) विद्वांसो दिव्यगुणा जनाः, तम् (देवम्) प्रकाशकम्, (अरतिम्) सर्वेषां स्वामिनम् अग्निं जगदीश्वरम्(दधन्विरे) आत्मनि धारयन्ति। हे अग्ने ज्योतिर्मय देव ! त्वम्(देवत्रा) देवेषु विद्वज्जनेषु (हव्यम्) दातव्यं सद्गुणसमूहम्(ऊहिषे) वह, प्रापय ॥१॥
Essence
ये मनुष्याः सद्गुणकर्मस्वभावं परमेश्वरमुपासते ते स्वयमपि तादृशा जायन्ते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके १०९ क्रमाङ्के व्याख्यातपूर्वा। अत्र परमात्मस्तुतिविषय उच्यते।