Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1686

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
तं꣢ वो꣣ वा꣡जा꣢नां꣣ प꣢ति꣣म꣡हू꣢महि श्रव꣣स्य꣡वः꣢ । अ꣡प्रा꣢युभिर्य꣣ज्ञे꣡भि꣢र्वावृ꣣धे꣡न्य꣢म् ॥१६८६॥

तम् । वः꣣ । वा꣡जा꣢꣯नाम् । प꣡ति꣢꣯म् । अ꣡हू꣢꣯महि । श्र꣣वस्य꣡वः꣢ । अ꣡प्रा꣢꣯युभिः । अ । प्रा꣣युभिः । यज्ञे꣡भिः꣢ । वा꣣वृधे꣡न्य꣢म् ॥१६८६॥

Mantra without Swara
तं वो वाजानां पतिमहूमहि श्रवस्यवः । अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥

तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः । अप्रायुभिः । अ । प्रायुभिः । यज्ञेभिः । वावृधेन्यम् ॥१६८६॥

Samveda - Mantra Number : 1686
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे सखायः ! (श्रवस्यवः) कीर्त्यभिलाषुका वयम् (वः) युष्माकम् (वाजानाम्) बलविज्ञानधनान्नादीनाम् (पतिम्) स्वामिनं पालकं वा, किञ्च (अप्रायुभिः) अप्रमादयुक्तैः।[अप्रायुवोऽप्रमाद्यन्तः निरु० ४।१९।] (यज्ञेभिः) सृष्ट्युत्पत्तिधारणपालनन्यायादिभिः (वावृधेन्यम्) परिवृद्धमहिमानम् (तम्) इन्द्रं जगदीश्वरम्, वयम् (अहूमहि) आह्वयामः। [ह्वयतेर्लुङि ‘बहुलं छन्दसि।’ अ० ६।१।३४ इति सम्प्रसारणम्] ॥३॥
Essence
जगति विद्यमानानां सर्वेषामैश्वर्याणां स्वामी, नित्यं परोपकारयज्ञे संलग्नो महामहिमा राजराजेश्वरो जगदीशः सर्वैः सश्रद्धमाह्वातव्यः स्तोतव्य उपासनीयश्च ॥३॥
Subject
अथ जगदीश्वरमाह्वयति।