Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1685

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
इ꣡न्द्र꣢ स्थातर्हरीणां꣣ न꣡ कि꣢ष्टे पू꣣र्व्य꣡स्तु꣢तिम् । उ꣡दा꣢नꣳश꣣ श꣡व꣢सा꣣ न꣢ भ꣣न्द꣡ना꣢ ॥१६८५॥

इ꣡न्द्र꣢꣯ । स्था꣣तः । हरीणाम् । न꣢ । किः꣣ । ते । पूर्व्य꣡स्तु꣢तिम् । पू꣣र्व्य꣢ । स्तु꣣तिम् । उ꣢त् । आ꣣नꣳश । श꣡व꣢꣯सा । न । भ꣣न्द꣡ना꣢ ॥१६८५॥

Mantra without Swara
इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिम् । उदानꣳश शवसा न भन्दना ॥

इन्द्र । स्थातः । हरीणाम् । न । किः । ते । पूर्व्यस्तुतिम् । पूर्व्य । स्तुतिम् । उत् । आनꣳश । शवसा । न । भन्दना ॥१६८५॥

Samveda - Mantra Number : 1685
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(हरीणाम्) परस्पराकर्षणवतां सूर्यग्रहोपग्रहनक्षत्रादिलोकानां विषयग्रहणशीलानां देहस्थानामिन्द्रियाणां वा (स्थातः) अधिष्ठातः, हे (इन्द्र) जगदीश्वर ! (ते) तव (पूर्व्यस्तुतिम्) श्रेष्ठां स्तुतिम् (न किः) न कोऽपि (शवसा) बलेन (न भन्दना) न कल्याणेन। [भदि कल्याणे सुखे च भ्वादिः। भन्दनेन इति प्राप्ते, ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन विभक्तेराकारादेशः] (उदानंश२) अतिक्रामति ॥२॥
Essence
जगदीश्वरादधिको बलवान् बलप्रदः कल्याणवान् कल्याणकर्ता च जगतीतले कश्चिन्नास्ति ॥२॥
Subject
अथ परमेश्वरस्य महिमानमाचष्टे।