Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1684

1875 Mantra
Devata- इन्द्रः Rishi- विश्वमना वैयश्वः Chhand- उष्णिक् Swara- ऋषभः
Mantra with Swara
ए꣢दु꣣ म꣡धो꣢र्म꣣दि꣡न्त꣢रꣳ सि꣣ञ्चा꣡ध्व꣢र्यो꣣ अ꣡न्ध꣢सः । ए꣣वा꣢꣫ हि वी꣣र꣡ स्तव꣢꣯ते स꣣दा꣡वृ꣢धः ॥१६८४॥

आ꣢ । इत् । उ꣣ । म꣡धोः꣢꣯ । म꣣दि꣡न्त꣢रम् । सि꣣ञ्च꣢ । अ꣣ध्वर्यो । अ꣡न्ध꣢꣯सः । ए꣣व꣢ । हि । वी꣣र꣢ । स्त꣡व꣢꣯ते । स꣣दा꣡वृ꣢धः । स꣣दा꣢ । वृ꣣धः ॥१६८४॥

Mantra without Swara
एदु मधोर्मदिन्तरꣳ सिञ्चाध्वर्यो अन्धसः । एवा हि वीर स्तवते सदावृधः ॥

आ । इत् । उ । मधोः । मदिन्तरम् । सिञ्च । अध्वर्यो । अन्धसः । एव । हि । वीर । स्तवते । सदावृधः । सदा । वृधः ॥१६८४॥

Samveda - Mantra Number : 1684
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 3;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (अध्वर्यो) ब्रह्माण्डयज्ञस्य सञ्चालक इन्द्र परमात्मन् ! त्वम् (मधोः) मधुरस्य (अन्धसः) आनन्दस्य (मदिन्तरम्) अतिशयेन तृप्तिकरं रसम् (इत्) निश्चयेन (आ सिञ्च उ) उपासकस्य अन्तरात्मं क्षारय खलु। (एव हि) एवमेव(वीरः) शूरः उपासकः (सदावृधः) सदा वृद्धः सन् (स्तवते) स्तूयते, प्रशस्यते ॥१॥
Essence
ब्रह्मानन्दरसेन संतृप्तः खलूपासको नित्यं वृद्धिमुन्नतिं च प्राप्नुवन् सर्वेषां प्रशंसाभाजनं जायते ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके ३८५ क्रमाङ्के मानवं संबोधिता। अत्र परमेश्वरः सम्बोध्यते।