Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1683

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- पञ्चमः
Mantra with Swara
म꣣घो꣡नः꣢ स्म वृत्र꣣ह꣡त्ये꣢षु चोदय꣣ ये꣡ दद꣢꣯ति प्रि꣣या꣡ वसु꣢꣯ । त꣢व꣣ प्र꣡णी꣢ती हर्यश्व सू꣣रि꣢भि꣣र्वि꣡श्वा꣢ तरेम दुरि꣣ता꣢ ॥१६८३॥

म꣣घो꣡नः꣢ । स्म꣣ । वृत्रह꣡त्ये꣢षु । वृ꣣त्र । ह꣡त्ये꣢꣯षु । चो꣣दय । ये꣢ । द꣡द꣢꣯ति । प्रि꣣या꣢ । व꣡सु꣢꣯ । त꣡व꣢꣯ । प्र꣡णी꣢꣯ती । प्र । नी꣡ती । हर्यश्व । हरि । अश्व । सूरि꣡भिः꣢ । वि꣡श्वा꣢꣯ । त꣣रेम । दुरिता꣢ । दुः꣣ । इता꣢ ॥१६८३॥

Mantra without Swara
मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु । तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥

मघोनः । स्म । वृत्रहत्येषु । वृत्र । हत्येषु । चोदय । ये । ददति । प्रिया । वसु । तव । प्रणीती । प्र । नीती । हर्यश्व । हरि । अश्व । सूरिभिः । विश्वा । तरेम । दुरिता । दुः । इता ॥१६८३॥

Samveda - Mantra Number : 1683
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (हर्यश्व) हरयः परस्पराकर्षणयुक्ताः अश्वाः व्याप्ताः सूर्यचन्द्रपृथिव्यादयो लोकाः यस्य तादृश जगदीश्वर ! त्वम्(मघोनः) तान् धनवतः मनुष्यान् (वृत्रहत्येषु) वृत्राणां पापानां पापिनां दुष्टशत्रूणां वा हत्या विनाशो येषु तेषु देवासुरसंग्रामेषु(चोदय) प्रेरय, (ये) धनवन्तो जनाः (प्रिया वसु) प्रियाणि वसूनि (ददति) परोपकाराय प्रयच्छन्ति। (तव प्रणीति) तव प्रकृष्टया नीत्या, वयम् (सूरिभिः) विद्वद्भिः स्तोतृभिः सह(विश्वा दुरिता) विश्वानि दुरितानि सर्वाणि दुःखदुर्गुणदुर्व्यसनादीनि (तरेम) पारयेम ॥२॥२
Essence
व्यक्तीनां समाजस्य चोन्नतये धनेन दानेन च सह पापानां संहारः विघ्नानां विजयश्चाप्यपेक्ष्यते ॥२॥ अस्मिन् खण्डे परमात्मनो मनसः श्रद्धायाश्च विषयाणां वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिर्वेदितव्या।
Subject
अथ परमात्मानं प्रार्थयते।