Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1682

1875 Mantra
Devata- इन्द्रः Rishi- वसिष्ठो मैत्रावरुणिः Chhand- बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) Swara- मध्यमः
Mantra with Swara
कस्तमि꣢꣯न्द्र त्वावस꣣वा मर्त्यो꣢꣯ दधर्षति । श्र꣣द्धा हि ते꣢꣯ मघव꣣न् पा꣡र्ये꣢ दि꣣वि꣢ वा꣣जी वाजं꣢꣯ सिषासति ॥१६८२॥

कः꣢ । तम् । इ꣣न्द्र । त्वावसो । त्वा । वसो । आ꣢ । म꣡र्त्यः꣢꣯ । द꣣धर्षति । श्रद्धा꣢ । श्र꣣त् । धा꣢ । हि । ते꣣ । मघवन् । पा꣡र्ये꣢꣯ । दि꣣वि꣢ । वा꣣जी꣢ । वा꣡ज꣢꣯म् । सि꣣षासति ॥१६८२॥

Mantra without Swara
कस्तमिन्द्र त्वावसवा मर्त्यो दधर्षति । श्रद्धा हि ते मघवन् पार्ये दिवि वाजी वाजं सिषासति ॥

कः । तम् । इन्द्र । त्वावसो । त्वा । वसो । आ । मर्त्यः । दधर्षति । श्रद्धा । श्रत् । धा । हि । ते । मघवन् । पार्ये । दिवि । वाजी । वाजम् । सिषासति ॥१६८२॥

Samveda - Mantra Number : 1682
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
(त्वावसो) त्वं स्वयमेव वसु यस्य तव तादृश (इन्द्र) हे जगदीश ! (तम्) त्वयि श्रद्धावन्तं जनम् (कः मर्त्यः) को मनुष्यः (आ दधर्षति) आ धर्षितुम् उत्सहते, न कोऽपीत्यर्थः। हे (मघवन्) ऐश्वर्यशालिन् (ते) त्वयि (श्रद्धा) श्रद्धाता (हि) खलु(पार्ये दिवि) पारयितव्ये सम्पूर्णे दिने (वाजी) बलविज्ञानान्नधनादिमान् सन् (वाजम्) बलविज्ञानान्नधनादिकम् (सिषासति) अन्येभ्यो दातुमिच्छति ॥१॥२
Essence
स एव वस्तुतः परमात्मनि श्रद्धावान् यस्तत्प्रेरणया सत्कर्माणि करोति तत्कृपया प्राप्तेनैश्वर्येण च दीनानां साहाय्यमाचरति ॥१॥
Subject
तत्र प्रथमा ऋक् पूर्वार्चिके २८० क्रमाङ्के व्याख्यातपूर्वा। अत्र श्रद्धाया महत्त्वं प्रतिपाद्यते।