Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1681

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
प꣢रि꣣ त्य꣡ꣳ ह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण । यो꣢ दे꣣वा꣢꣫न्विश्वाँ꣣ इ꣢꣯त्परि꣣ म꣡दे꣢न स꣣ह गच्छ꣢꣯ति ॥१६८१॥

प꣡रि꣢꣯ । त्यम् । ह꣣र्यत꣢म् । ह꣡रि꣢꣯म् । ब꣣भ्रु꣢म् । पु꣣नन्ति । वा꣡रे꣢꣯ण । यः । दे꣣वा꣢न् । वि꣡श्वा꣢꣯न् । इ꣣त् । प꣡रि꣢꣯ । म꣡दे꣢꣯न । स꣣ह꣢ । ग꣡च्छ꣢꣯ति ॥१६८१॥

Mantra without Swara
परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाँ इत्परि मदेन सह गच्छति ॥

परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥१६८१॥

Samveda - Mantra Number : 1681
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
योगाभ्यासिनो जनाः (त्यम्) तम् (हर्यतम्) कमनीयम्, (बभ्रुम्) इन्द्रियाणां स्वस्वविषयग्राहित्वे पोषकम्, (हरिम्) ज्ञानाहरणसाधनभूतम् मनः (वारेण) अशुद्धिनिवारकेण योगाङ्गानुष्ठानेन२ (परि पुनन्ति) पवित्रयन्ति, (यः) यः हरिः यद् मनः (मदेन सह) उत्साहेन सार्धम् (विश्वान् देवान् इत्) सर्वाण्येव इन्द्रियाणि (परि गच्छति) तत्तद्विषयग्राहणाय परिव्याप्नोति, मनोव्यापाराभावे इन्द्रियाणां विषयग्रहणासमर्थत्वात् ॥३॥
Essence
मनुष्याणां मनश्चेद् दूषितं तर्हि तदिन्द्रियाणि कुमार्ग एव नयति। अतोऽध्यात्मजीवनाय परमात्मदर्शनाय च तच्छोधनं नितरामपेक्ष्यते ॥३॥
Subject
तृतीया ऋक् पूर्वार्चिके ५५२ क्रमाङ्के जीवात्मशोधनविषये उत्तरार्चिके च १३२९ क्रमाङ्के गुरुशिष्यविषये व्याख्याता। अत्र मनःशुद्धिविषयमाह।