Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 1680

1875 Mantra
Devata- पवमानः सोमः Rishi- अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च Chhand- अनुष्टुप् Swara- गान्धारः
Mantra with Swara
त꣡ꣳ स꣢खायः पुरू꣣रु꣡चं꣢ व꣣यं꣢ यू꣣यं꣢ च꣢ सू꣣र꣡यः꣢ । अ꣣श्या꣢म꣣ वा꣡ज꣢गन्ध्यꣳ स꣣ने꣢म꣣ वा꣡ज꣢पस्त्यम् ॥१६८०॥

त꣢म् । स꣣खायः । स । खायः । पुरूरु꣡च꣢म् । पु꣣रु । रु꣡च꣢꣯म् । व꣣य꣢म् । यू꣣य꣢म् । च꣣ । सूर꣡यः꣢ । अ꣣श्या꣢म । वा꣡ज꣢꣯गन्ध्यम् । वा꣡ज꣢꣯ । ग꣣न्ध्यम् । सने꣡म꣢ । वा꣡ज꣢꣯पस्त्यम् । वा꣡ज꣢꣯ । प꣣स्त्यम् ॥१६८०॥

Mantra without Swara
तꣳ सखायः पुरूरुचं वयं यूयं च सूरयः । अश्याम वाजगन्ध्यꣳ सनेम वाजपस्त्यम् ॥

तम् । सखायः । स । खायः । पुरूरुचम् । पुरु । रुचम् । वयम् । यूयम् । च । सूरयः । अश्याम । वाजगन्ध्यम् । वाज । गन्ध्यम् । सनेम । वाजपस्त्यम् । वाज । पस्त्यम् ॥१६८०॥

Samveda - Mantra Number : 1680
(Kauthum) उत्तरार्चिकः: » Prapathak » 8; Ardh Prapathak » 2;
(Rananiya) उत्तरार्चिकः: » Adhyay » 18; Khand » 2;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे (सखायः) सुहृदः (वयं यूयं च सूरयः) वयं यूयं च मेधाविनः उपासकाः (तम्) प्रसिद्धम् (पुरूरुचम्) बहुदीप्तिम्, (वाजगन्ध्यम्) वाजस्य आत्मबलस्य गन्ध्यं ग्रहणं यस्मात् तथाविधम् सोमं रसागारं परमेश्वरम्, (अश्याम) प्राप्नुयाम, (वाजपस्त्यम्) वाजस्य विज्ञानस्य पस्त्यं पतनं प्राप्तिर्यस्मात् तादृशम् सोमं शुभगुणकर्मप्रेरकं जगदीश्वरम् (सनेम) संभजेमहि। [वाजपस्त्यं वाजपतनम्। ‘सनेम वाजपस्त्यम्’ इत्यपि निगमो भवति। वाजगन्ध्यं गध्यत्युत्तरपदम्। ‘अश्याम वाजगन्ध्यम्’ इत्यपि निगमो भवति। गध्यं गृह्णातेः। इति निरुक्तम् (५।१५)] ॥२॥
Essence
सर्वे सुहृदः संभूय श्रद्धया तरङ्गिताः सन्तः परमात्मानमुपासते चेत् तर्हि तेजोबलविज्ञानादीनां प्राप्तिः सततं जायते ॥२॥
Subject
अथ पुनरपि तमेव विषयमाह।