Samveda Bhashyam (Acharya Ramnath Vedalankar)

Samveda Mantra 168

1875 Mantra
Devata- इन्द्रः Rishi- प्रियमेधः आङ्गिरसः Chhand- गायत्री Swara- षड्जः Kaand Name- ऐन्द्रं काण्डम् Gaan- प्रकृति गान Gaan Parva- ऐन्द्रं पर्व
Mantra with Swara
अ꣣भि꣡ प्र गोप꣢꣯तिं गि꣣रे꣡न्द्र꣢मर्च꣣ य꣡था꣢ वि꣣दे꣢ । सू꣣नु꣢ꣳ स꣣त्य꣢स्य꣣ स꣡त्प꣢तिम् ॥१६८॥

अ꣣भि꣢ । प्र । गो꣡प꣢꣯तिम् । गो꣢ । प꣣तिम् । गिरा꣢ । इ꣡न्द्र꣢꣯म् । अ꣣र्च । य꣡था꣢꣯ । वि꣣दे꣢ । सू꣣नु꣢म् । स꣣त्य꣡स्य꣣ । स꣡त्प꣢꣯तिम् । सत् । प꣣तिम् ॥१६८॥

Mantra without Swara
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे । सूनुꣳ सत्यस्य सत्पतिम् ॥

अभि । प्र । गोपतिम् । गो । पतिम् । गिरा । इन्द्रम् । अर्च । यथा । विदे । सूनुम् । सत्यस्य । सत्पतिम् । सत् । पतिम् ॥१६८॥

Samveda - Mantra Number : 168
(Kauthum) पूर्वार्चिकः: » Prapathak » 2; Ardh Prapathak » 2; Dashati » 3;
(Rananiya) पूर्वार्चिकः: » Adhyay » 2; Khand » 6;

Samveda Bhashyam (Acharya Ramnath Vedalankar)

संस्कृत
Samveda Bhashyam (Acharya Ramnath Vedalankar) - संस्कृत
Meaning
हे मनुष्य ! त्वम् (गोपतिम्) गोपदवाच्यानां सूर्यपृथिव्यादिलोकानां राष्ट्रभूमेर्वा पतिं स्वामिनं पालकं च, (सत्यस्य सूनुम्) सत्यज्ञानस्य सत्यकर्मणश्च प्रेरकम्। षू प्रेरणे इति धातोः सुवः कित्। उ० ३।३५ इति नुः प्रत्ययः। (सत्पतिम्) सतां सज्जनानां पालयितारम्, असज्जनानां दण्डयितारमित्यर्थादापद्यते, (इन्द्रम्) परमेश्वरं राजानं च (अभि) अभिलक्ष्य (गिरा) वाचा (प्र अर्च) प्रकर्षेण स्तुहि, तद्गुणकर्माणि वर्णय, (यथा) येन प्रकारेण, सः (विदे२) तां स्तुतिं जानाति। विद ज्ञाने धातोश्छान्दसमात्मनेपदम्। लटि वित्ते इति प्राप्ते लोपस्त आत्मनेपदेषु, अ० ७।१।४१ इति तलोपः। विदे इत्यत्र यावद्यथाभ्याम्, अ० ८।१।६६ इति निघाताभावः ॥४॥ अत्र अर्थश्लेषालङ्कारः ॥४॥
Essence
मनुष्याणां योग्यमस्ति यत् ते विविधगुणगणविभूषितं परमेश्वरं राजानं चोद्दिश्य तयोर्यथार्थगुणकर्मस्वभावाँस्तथा वर्णयेयुर्यथा तौ तद् विजानीयाताम्, यतो हि स्तोतव्यस्य स्तुतिस्तदैव फलदायिनी भवति यदा सा तदन्तःकरणं स्पृशति ॥४॥
Subject
अथ मनुष्यं प्रेरयति।
Footnote
१. ऋ० ८।६९।४, साम० १४८९, अथ० २०।२२।४, ९२।१। २. यथा विदे जानामीत्यर्थः—इति वि०। यथा विदे ज्ञायते त्वया—इति भ०। यथा विदे स यथा स्वात्मानं स्तुतिप्रकारं जानाति, यथा वा यागं प्रति गन्तव्यमिति जानाति अर्च—इति सा०।